अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसा पेतुस्ते दानवगणाश् छिन्नपक्षा इवाद्रयः
तद्घनीभूतदैत्येन्द्रम् अन्धकार इवार्णवे दानवं देवकदनं तमोभूतमिवाभवत्
तदासृजन्महामायां मयस्तां तामसीं दहन् युगान्तोद्योतजननीं सृष्टामौर्वेण वह्निना
सा ददाह ततः सर्वान् माया मयविकल्पिता दैत्याश्चादित्यवपुषः सद्य उत्तस्थुराहवे
मायामौर्वीं समासाद्य दह्यमाना दिवौकसः भेजिरे चन्द्रविषयं शीतांशुसलिलप्रदम्
ते दह्यमाना ह्यौर्वेण वह्निना नष्टचेतसः शशंसुर्वज्रिणं देवाः संतप्ताः शरणैषिणः
संतते मायया सैन्ये हन्यमाने च दानवैः चोदितो देवराजेन वरुणो वाक्यमब्रवीत्
पुरा ब्रह्मर्षिजः शक्र तपस्तेपे सुदारुणम् ऊर्वः सपूर्वतेजस्वी सदृशो ब्रह्मणो गुणैः
तं तपन्तमिवादित्यं तपसा जगदव्ययम् उपतस्थुर्मुनिगणा दिव्या देवर्षिभिः सह
हिरण्यकशिपुश्चैव दानवो दानवेश्वरः ऋषिं विज्ञापयामासुः पुरा परमतेजसम्
ऊचुर्ब्रह्मर्षयस्तं तु वचनं धर्मसंहितम् ऋषिवंशेषु भगवंश् छिन्नमूलमिदं पदम्
एकस्त्वमनपत्यश्च गोत्रजो ऽन्यो न वर्तते कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे
बहूनि विप्र गोत्राणि मुनीनां भावितात्मनाम् एकदेहानि तिष्ठन्ति विविक्तानि विना प्रजाः
एवमुच्छिन्नमूलैश्च पुत्रैर्नो नास्ति कारणम् भवांस्तु तपसा श्रेष्ठो प्रजापातसमद्युतिः
तत्र वर्तस्व वंशाय वर्धयात्मानम् आत्मना त्वया धर्मो ऽर्जितस्तेन द्वितीयां कुरु वै तनुम्
स एवमुक्तो मुनिभिर् मुनिर् मर्मसु ताडितः जगर्हे तानृषिगणान् वचनं चेदमब्रवीत्
यथायं विहितो धरो मुनीनां शाश्वतः पुरा आर्षं वै सेवतः कर्म वन्यमूलफलाशिनः
ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मदर्शिनः ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत्
जनानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः अस्माकं तु वरं वृत्तिर् वनाश्रमनिवासिनाम्
अब्भक्षा वायुभक्षाश्च दन्तोलूखलिनस्तथा अश्मकुट्टा ह्यशनकाः पञ्चातपसहाश्च ये
एते तपसि तिष्ठन्ति व्रतैरपि सुदुष्करैः ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ति परां गतिम्
ब्रह्यचर्याद्ब्राह्मणस्य ब्राह्मणत्वं विधीयते एवमाहुः परे लोके ब्रह्मचर्यविदो जनाः
ब्रह्मचर्ये स्थितं सत्यं ब्रह्मचर्ये स्थितं तपः ये स्थिता ब्रह्मचर्ये तु ब्राह्मणा दिवि संस्थिताः
नास्ति योगं विना सिद्धिर् न वा सिद्धिं विना यशः नास्ति लोके यशोमूलं ब्रह्मचर्यात्परं तपः
यो निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चकम् ब्रह्मचर्यं समाधत्ते किमतः परमं तपः
अयोगे केशधरणम् असंकल्पव्रतक्रियां अब्रह्मचर्ये चर्या च त्रयं स्याद् दम्भसंज्ञकम्
क्व दाराः क्व च संयोगः क्व च भावविपर्ययः नन्वियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा
यद्यस्ति तपसो वीर्यं युष्माकं विदितात्मनाम् सृजध्वं मानसान्पुत्रान् प्राजापत्येन कर्मणा
मनसा निर्मिता योनिर् आधातव्या तपस्विभिः न दारयोगो बीजं वा व्रतमुक्तं तपस्विनाम्
यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः व्याहृतं सद्भिरत्यर्थम् असद्भिरिव मे मतम्