तमन्वयुर्देवगणा मुनयश्च समाहिताः गीर्भिः परममन्त्राभिस् तुष्टुवुश्च जनार्दनम्
तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरःसरम् द्विजराजपरिक्षिप्तं देवराजविराजितम्
चन्द्रप्रभाभिर्विपुलं युद्धाय समवर्तत पवनाविद्धनिर्घोषं संप्रदीप्तहुताशनम्
विष्णोर्जिष्णोश्च भ्राजिष्णोस् तेजसा तमसावृतम् बलं बलवदुद्वृत्तं युद्धाय समवर्तत
स्वस्त्यस्तु देवेभ्य इति बृहस्पतिरभाषत स्वस्त्यस्तु दानवानीक उशना वाक्यमाददे
ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तदा सुराणामसुराणां च परस्परजयैषिणाम्
दानवा दैवतैः सार्धं नानाप्रहरणोद्यताः समीयुर्युध्यमाना वै पर्वता इव पर्वतैः
तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ धर्माधर्मसमायुक्तं दर्पेण विनयेन च
ततो रथैर्विप्रयुक्तैर् वारणैश्च प्रचोदितैः उत्पतद्भिश्च गगनम् असिहस्तैः समन्ततः
क्षिप्यमाणैश्च मुसलैः संपतद्भिश्च सायकैः चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः
तद्युद्धमभवद्घोरं देवदानवसंकुलम् जगतस्त्रासजननं युगसंवर्तकोपमम्
हस्तमुक्तैश्च परिघैर् विप्रयुक्तैश्च पर्वतैः दानवाः समरे जघ्नुर् देवानिन्द्रपुरोगमान्
ते वध्यमाना बलिभिर् दानवैर्जितकाशिभिः विषण्णवदना देवा जग्मुरार्तिं परां मृधे
ते ऽस्त्रशूलप्रमथिताः परिघैर्भिन्नमस्तकाः भिन्नोरस्का दितिसुतैर् वेमू रक्तं व्रणैर्बहु
वेष्टिताः शरजालैश्च निर्यत्नाश्चासुरैः कृताः प्रविष्टा दानवीं मायां न शेकुस्ते विचेष्टितुम्
अस्तं गतमिवाभाति निष्प्राणसदृशाकृति बलं सुराणामसुरैर् निष्प्रयत्नायुधं कृतम्
दैत्यचापच्युतान् घोरांश् छित्त्वा वज्रेण ताञ्छरान् शक्रो दैत्यबलं घोरं विवेश बहुलोचनः
स दैत्यप्रमुखान्हत्वा तद्दानवबलं महत् तामसेनास्त्रजालेन तमोभूतमथाकरोत्
ते ऽन्योन्यं नावबुध्यन्त देवानां वाहनानि च घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा
मायापाशैर्विमुक्तास्तु यत्नवन्तः सुरोत्तमाः वपूंषि दैत्यसिंहानां तमोभूतान्यपातयन्
अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसा पेतुस्ते दानवगणाश् छिन्नपक्षा इवाद्रयः
तद्घनीभूतदैत्येन्द्रम् अन्धकार इवार्णवे दानवं देवकदनं तमोभूतमिवाभवत्
तदासृजन्महामायां मयस्तां तामसीं दहन् युगान्तोद्योतजननीं सृष्टामौर्वेण वह्निना
सा ददाह ततः सर्वान् माया मयविकल्पिता दैत्याश्चादित्यवपुषः सद्य उत्तस्थुराहवे
मायामौर्वीं समासाद्य दह्यमाना दिवौकसः भेजिरे चन्द्रविषयं शीतांशुसलिलप्रदम्
ते दह्यमाना ह्यौर्वेण वह्निना नष्टचेतसः शशंसुर्वज्रिणं देवाः संतप्ताः शरणैषिणः
संतते मायया सैन्ये हन्यमाने च दानवैः चोदितो देवराजेन वरुणो वाक्यमब्रवीत्
पुरा ब्रह्मर्षिजः शक्र तपस्तेपे सुदारुणम् ऊर्वः सपूर्वतेजस्वी सदृशो ब्रह्मणो गुणैः
तं तपन्तमिवादित्यं तपसा जगदव्ययम् उपतस्थुर्मुनिगणा दिव्या देवर्षिभिः सह
हिरण्यकशिपुश्चैव दानवो दानवेश्वरः ऋषिं विज्ञापयामासुः पुरा परमतेजसम्