यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु सप्तधातुगतो लोकांस् त्रीन्दधार चचार च
यमाहुरग्निकर्तारं सर्वप्रभवमीश्वरम् सप्तस्वरगतो यश्च नित्यं गीर्भिरुदीर्यते
यं वदन्त्युत्तमं भूतं यं वदन्त्यशरीरिणम् यमाहुराकाशगमं शीघ्रगं शब्दयोगिनम्
स वायुः सर्वभूतायुर् उद्भूतः स्वेन तेजसा ववौ प्रव्यथयन्दैत्यान् प्रतिलोमं सतोयदः
मरुतो दिव्यगन्धर्वैर् विद्याधरगणैः सह चिक्रीडुरसिभिः शुभ्रैर् निर्मुक्तैरिव पन्नगैः
सृजन्तः सर्पपतयस् तीव्रतोयमयं विषम् शरभूता दिवीन्द्राणां चेरुर्व्यात्तानना दिवि
पर्वतैश्च शिलाशृङ्गैः शतशश्चैव पादपैः उपतस्थुः सुरगणाः प्रहर्तुं दानवं बलम्
यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः युगान्तकृष्णवर्त्माभो विश्वस्य जगतः प्रभुः
सर्वयोनिः स मधुहा हव्यभुक्क्रतुसंस्थितः भूम्यापोव्योमभूतात्मा श्यामः शान्तिकरो ऽरिहा
अरिघ्नममरादीनां चक्रं गृह्य गदाधरः अर्कं नागादिवोद्यन्तम् उद्यम्योत्तमतेजसा
सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम् करेण कालीं वपुषा शत्रुकालप्रदां गदाम्
अन्यैर्भुजैः प्रदीप्तानि भुजगारिध्वजः प्रभुः दधारायुधजातानि शार्ङ्गादीनि महाबलः
स कश्यपस्यात्मभुवं द्विजं भुजगभोजनम् पवनाधिकसंपातं गगनक्षोभणं खगम्
भुजगेन्द्रेण वदने निविष्टेन विराजितम् अमृतारम्भनिर्मुक्तं मन्दराद्रिम् इवोच्छ्रितम्
देवासुरविमर्देषु बहुशो दृष्टविक्रमम् महेन्द्रेणामृतस्यार्थे वज्रेण कृतलक्षणम्
शिखिनं बलिनं चैव तप्तकुण्डलभूषणम् विचित्रपत्रवसनं धातुमन्तमिवाचलम्
स्फीतक्रोडावलम्बेन शीतांशुसमतेजसा भोगिभोगावसक्तेन मणिरत्नेन भास्वता
पक्षाभ्यां चारुपत्राभ्याम् आवृत्य दिवि लीलया युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम्
नीललोहितपीताभिः पताकाभिरलंकृतम् केतुवेषप्रतिच्छन्नं महाकायनिकेतनम्
अरुणावरजं श्रीमान् आरुह्य समरे विभुः सुवर्णवर्णवपुषा सुपर्णं खेचरोत्तमम्
तमन्वयुर्देवगणा मुनयश्च समाहिताः गीर्भिः परममन्त्राभिस् तुष्टुवुश्च जनार्दनम्
तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरःसरम् द्विजराजपरिक्षिप्तं देवराजविराजितम्
चन्द्रप्रभाभिर्विपुलं युद्धाय समवर्तत पवनाविद्धनिर्घोषं संप्रदीप्तहुताशनम्
विष्णोर्जिष्णोश्च भ्राजिष्णोस् तेजसा तमसावृतम् बलं बलवदुद्वृत्तं युद्धाय समवर्तत
स्वस्त्यस्तु देवेभ्य इति बृहस्पतिरभाषत स्वस्त्यस्तु दानवानीक उशना वाक्यमाददे
ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तदा सुराणामसुराणां च परस्परजयैषिणाम्
दानवा दैवतैः सार्धं नानाप्रहरणोद्यताः समीयुर्युध्यमाना वै पर्वता इव पर्वतैः
तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ धर्माधर्मसमायुक्तं दर्पेण विनयेन च
ततो रथैर्विप्रयुक्तैर् वारणैश्च प्रचोदितैः उत्पतद्भिश्च गगनम् असिहस्तैः समन्ततः
क्षिप्यमाणैश्च मुसलैः संपतद्भिश्च सायकैः चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः