योगभ्रष्टास्त्रयस्तेषां बभ्रमुश् चाल्पचेतनाः दृष्ट्वा विभ्राजमानं तम् उद्याने स्त्रीभिरन्वितम्
क्रीडन्तं विविधैर्भावैर् महाबलपराक्रमम् पञ्चालान्वयसम्भूतं प्रभूतबलवाहनम्
राज्यकामो ऽभवच्चैकस् तेषां मध्ये जलौकसाम् पितृवर्ती च यो विप्रः श्राद्धकृत् पितृवत्सलः
अपरौ मन्त्रिणौ दृष्ट्वा प्रभूतबलवाहनौ मन्त्रित्वे चक्रतुश्चेच्छाम् अस्मिन्मर्त्ये द्विजोत्तमाः
तन्मध्ये ये तु निष्कामास् ते बभूवुर् द्विजोत्तमाः विभ्राजपुत्रस्त्वेको ऽभूद् ब्रह्मदत्त इति स्मृतः
मन्त्रिपुत्रौ तथा चोभौ कण्डरीकसुबालकौ ब्रह्मदत्तो ऽभिषिक्तः सन् पुरोहितविपश्चिता
पञ्चालराजो विक्रान्तः सर्वशास्त्रविशारदः योगवित्सर्वजन्तूनां रुतवेत्ताभवत्तदा
तस्य राज्ञो ऽभवद्भार्या देवलस्यात्मजा शुभा संनतिर्नाम विख्याता कपिला याभवत्पुरा
पितृकार्ये नियुक्तत्वाद् अभवद्ब्रह्मवादिनी तया चकार सहितः स राज्यं राजनन्दनः
कदाचिदुद्यानगतस् तया सह स पार्थिवः ददर्श कीटमिथुनम् अनङ्गकलहाकुलम्
पिपीलिकामनुनयन् परितः कीटकामुकः पञ्चबाणाभितप्ताङ्गः सगद्गदमुवाच ह
न त्वया सदृशी लोके कामिनी विद्यते क्वचित् मध्यक्षामातिजघना बृहद्वक्षो ऽभिगामिनी
सुवर्णवर्णा सुश्रोणी मञ्जूक्ता चारुहासिनी सुलक्ष्यनेत्ररसना गुडशर्करवत्सला
भोक्ष्यसे मयि भुक्ते त्वं स्नासि स्नाते तथा मयि प्रोषिते सति दीना त्वं क्रुद्धे ऽपि भयचञ्चला
किमर्थं वद कल्याणि सरोषवदना स्थिता सा तमाह सकोपा तु किम् आलपसि मां शठ
त्वया मोदकचूर्णं तु मां विहाय विनेष्यता प्रदत्तं समतिक्रान्ते दिने ऽन्यस्याः समन्मथ
त्वत्सादृश्यान्मया दत्तम् अन्यस्यै वरवर्णिनि तदेकमपराधं मे क्षन्तुमर्हसि भामिनि
नैतदेवं करिष्यामि पुनः क्वापीह सुव्रते स्पृशामि पादौ सत्येन प्रसीद प्रणतस्य मे
इति तद्वचनं श्रुत्वा सा प्रसन्नाभवत्ततः आत्मानम् अर्पयामास मोहनाय पिपीलिका
ब्रह्मदत्तो ऽप्यशेषं तं ज्ञात्वा विस्मयम् आगमत् सर्वसत्त्वरुतज्ञत्वात् प्रसादाच् चक्रपाणिनः
कथं सत्त्वरुतज्ञो ऽभूद् ब्रह्मदत्तो धरातले तच्चाभवत्कस्य कुले चक्रवाकचतुष्टयम्
तस्मिन्नेव पुरे जातास् ते च चक्राह्वयास्तदा वृद्धद्विजस्य दायादा विप्रा जातिस्मराः पुरा
धृतिमांस्तत्त्वदर्शी च विद्याचण्डस् तपोत्सुकः नामतः कर्मतश्चैते सुदरिद्रस्य ते सुताः
तपसे बुद्धिरभवत् तदा तेषां द्विजन्मनाम् यास्यामः परमां सिद्धिम् इत्य् ऊचुस् ते द्विजोत्तमाः
ततस्तद्वचनं श्रुत्वा सुदरिद्रो महातपाः उवाच दीनया वाचा किमेतदिति पुत्रकाः
अधर्म एष इति वः पिता तान् अभ्यवारयत् वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनः
को नु धर्मो ऽत्र भविता मत्त्यागाद्गतिरेव वा ऊचुस्ते कल्पिता वृत्तिस् तव तात वदस्व तत्
वित्तमेतत्पुरो राज्ञः स ते दास्यति पुष्कलम् धनं ग्रामसहस्राणि प्रभाते पठतस्तव
ये विप्रमुख्याः कुरुजाङ्गलेषु दाशास्तथा दाशपुरे मृगाश्च कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः
इत्युक्त्वा पितरं जग्मुस् ते वनं तपसे पुनः वृद्धो ऽपि राजभवनं जगामात्मार्थसिद्धये