स्वर्गे शक्रानुयातेषु देवतूर्यनिनादिषु सुन्दर्यः परिनृत्यन्ति शतशो ऽप्सरसां गणाः
केतुना नागराजेन राजमानो यथा रविः युक्तो हयसहस्रेण मनोमारुतरंहसा
स स्यन्दनवरो भाति गुप्तो मातलिना तदा कृत्स्नः परिवृतो मेरुर् भास्करस्येव तेजसा
यमस्तु दण्डमुद्यम्य कालयुक्तश्च मुद्गरम् तस्थौ सुरगणानीके दैत्यान्नादेन भीषयन्
चतुर्भिः सागरैर्युक्तो लेलिहानैश्च पन्नगैः शङ्खमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः
कालपाशान्समाविध्यन् हयैः शशिकरोपमैः वाय्वीरितैर् जलाकारैः कुर्वंल्लीलाः सहस्रशः
पाण्डुरोद्धूतवसनः प्रवालरुचिराङ्गदः मणिश्यामोत्तमवपुर् हरिभारार्पितो वरः
वरुणः पाशधृङ् मध्ये देवानीकस्य तस्थिवान् युद्धवेलामभिलषन् भिन्नवेल इवार्णवः
यक्षराक्षससैन्येन गुह्यकानां गणैरपि युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः
राजराजेश्वरः श्रीमान् गदापाणिरदृश्यत विमानयोधी धनदो विमाने पुष्पके स्थितः
स राजराजः शुशुभे युद्धार्थी नरवाहनः उक्षाणमास्थितः संख्ये साक्षादिव शिवः स्वयम्
पूर्वपक्षः सहस्राक्षः पितृराजस्तु दक्षिणः वरुणः पश्चिमं पक्षम् उत्तरं नरवाहनः
चतुर्षु युक्ताश्चत्वारो लोकपाला महाबलाः स्वासु दिक्षु स्वरक्षन्त तस्य देवबलस्य ते
सूर्यः सप्ताश्वयुक्तेन रथेनामितगामिना श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः
उदयास्तगचक्रेण मेरुपर्वतगामिना त्रिदिवद्वारचक्रेण तपता लोकमव्ययम्
सहस्ररश्मियुक्तेन भ्राजमानेन तेजसा चचार मध्ये लोकानां द्वादशात्मा दिनेश्वरः
सोमः श्वेतहये भाति स्यन्दने शीतरश्मिवान् हिमवत्तोयपूर्णाभिर् भाभिराह्लादयञ्जगत्
तमृक्षपूगानुगतं शिशिरांशुं द्विजेश्वरम् शशच्छायाङ्किततनुं नैशस्य तमसः क्षयम्
ज्योतिषामीश्वरं व्योम्नि रसानां रसदं प्रभुम् ओषधीनां सहस्राणां निधानममृतस्य च
जगतः प्रथमं भागं सौम्यं सत्यमयं रथम् ददृशुर्दानवाः सोमं हिमप्रहरणं स्थितम्
यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु सप्तधातुगतो लोकांस् त्रीन्दधार चचार च
यमाहुरग्निकर्तारं सर्वप्रभवमीश्वरम् सप्तस्वरगतो यश्च नित्यं गीर्भिरुदीर्यते
यं वदन्त्युत्तमं भूतं यं वदन्त्यशरीरिणम् यमाहुराकाशगमं शीघ्रगं शब्दयोगिनम्
स वायुः सर्वभूतायुर् उद्भूतः स्वेन तेजसा ववौ प्रव्यथयन्दैत्यान् प्रतिलोमं सतोयदः
मरुतो दिव्यगन्धर्वैर् विद्याधरगणैः सह चिक्रीडुरसिभिः शुभ्रैर् निर्मुक्तैरिव पन्नगैः
सृजन्तः सर्पपतयस् तीव्रतोयमयं विषम् शरभूता दिवीन्द्राणां चेरुर्व्यात्तानना दिवि
पर्वतैश्च शिलाशृङ्गैः शतशश्चैव पादपैः उपतस्थुः सुरगणाः प्रहर्तुं दानवं बलम्
यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः युगान्तकृष्णवर्त्माभो विश्वस्य जगतः प्रभुः
सर्वयोनिः स मधुहा हव्यभुक्क्रतुसंस्थितः भूम्यापोव्योमभूतात्मा श्यामः शान्तिकरो ऽरिहा
अरिघ्नममरादीनां चक्रं गृह्य गदाधरः अर्कं नागादिवोद्यन्तम् उद्यम्योत्तमतेजसा