गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायसैः चक्रैश्च दैत्यप्रवराश् चक्रुर् आनन्दितं बलम्
एतद्दानवसैन्यं तत् सर्वं युद्धमदोत्कटम् देवानभिमुखे तस्थौ मेघानीकमिवोद्धतम्
तदद्भुतं दैत्यसहस्रगाढं वाय्वग्निशैलाम्बुदतोयकल्पम् बलं रणौघाभ्युदये ऽभ्युदीर्णं युयुत्सयोन्मत्तम् इवाबभासे
श्रुतस्ते दैत्यसैन्यस्य विस्तारो रविनन्दन सुराणामपि सैन्यस्य विस्तारं वैष्णवं शृणु
आदित्या वसवो रुद्रा अश्विनौ च महाबलौ सबलाः सानुगाश्चैव संनह्यन्त यथाक्रमम्
पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक् ग्रामणीः सर्वदेवानाम् आरुरोह सुरद्विपम्
मध्ये चास्य रथः सर्वपक्षिप्रवरहंसः सुचारुचक्रचरणो हेमवज्रपरिष्कृतः
देवगन्धर्वयक्षौघैर् अनुयातः सहस्रशः दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः
वज्रविस्फूर्जितोद्भूतैर् विद्युदिन्द्रायुधोदितैः युक्तो बलाहकगणैः पर्वतैरिव कामगैः
यमारूढः स भगवान् पर्येति सकलं जगत् हविर्धानेषु गायन्ति विप्रा मखमुखे स्थिताः
स्वर्गे शक्रानुयातेषु देवतूर्यनिनादिषु सुन्दर्यः परिनृत्यन्ति शतशो ऽप्सरसां गणाः
केतुना नागराजेन राजमानो यथा रविः युक्तो हयसहस्रेण मनोमारुतरंहसा
स स्यन्दनवरो भाति गुप्तो मातलिना तदा कृत्स्नः परिवृतो मेरुर् भास्करस्येव तेजसा
यमस्तु दण्डमुद्यम्य कालयुक्तश्च मुद्गरम् तस्थौ सुरगणानीके दैत्यान्नादेन भीषयन्
चतुर्भिः सागरैर्युक्तो लेलिहानैश्च पन्नगैः शङ्खमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः
कालपाशान्समाविध्यन् हयैः शशिकरोपमैः वाय्वीरितैर् जलाकारैः कुर्वंल्लीलाः सहस्रशः
पाण्डुरोद्धूतवसनः प्रवालरुचिराङ्गदः मणिश्यामोत्तमवपुर् हरिभारार्पितो वरः
वरुणः पाशधृङ् मध्ये देवानीकस्य तस्थिवान् युद्धवेलामभिलषन् भिन्नवेल इवार्णवः
यक्षराक्षससैन्येन गुह्यकानां गणैरपि युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः
राजराजेश्वरः श्रीमान् गदापाणिरदृश्यत विमानयोधी धनदो विमाने पुष्पके स्थितः
स राजराजः शुशुभे युद्धार्थी नरवाहनः उक्षाणमास्थितः संख्ये साक्षादिव शिवः स्वयम्
पूर्वपक्षः सहस्राक्षः पितृराजस्तु दक्षिणः वरुणः पश्चिमं पक्षम् उत्तरं नरवाहनः
चतुर्षु युक्ताश्चत्वारो लोकपाला महाबलाः स्वासु दिक्षु स्वरक्षन्त तस्य देवबलस्य ते
सूर्यः सप्ताश्वयुक्तेन रथेनामितगामिना श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः
उदयास्तगचक्रेण मेरुपर्वतगामिना त्रिदिवद्वारचक्रेण तपता लोकमव्ययम्
सहस्ररश्मियुक्तेन भ्राजमानेन तेजसा चचार मध्ये लोकानां द्वादशात्मा दिनेश्वरः
सोमः श्वेतहये भाति स्यन्दने शीतरश्मिवान् हिमवत्तोयपूर्णाभिर् भाभिराह्लादयञ्जगत्
तमृक्षपूगानुगतं शिशिरांशुं द्विजेश्वरम् शशच्छायाङ्किततनुं नैशस्य तमसः क्षयम्
ज्योतिषामीश्वरं व्योम्नि रसानां रसदं प्रभुम् ओषधीनां सहस्राणां निधानममृतस्य च
जगतः प्रथमं भागं सौम्यं सत्यमयं रथम् ददृशुर्दानवाः सोमं हिमप्रहरणं स्थितम्