कार्ष्णायसमयं दिव्यं लोहेषाबद्धकूबरम् तिमिरोद्गारिकिरणं गर्जन्तमिव तोयदम्
लोहजालेन महता सगवाक्षेण दंशितम् आयसैः परिघैः पूर्णं क्षेपणीयैश्च मुद्गरैः
प्रासैः पाशैश्च विततैर् असंयुक्तैश्च कण्टकैः शोभितं त्रासयानैश्च तोमरैश्च परश्वधैः
उद्यन्तं द्विषतां हेतोर् द्वितीयमिव मन्दरम् युक्तं खरसहस्रेण सो ऽध्यारोहद्रथोत्तमम्
विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः
युक्तं रथसहस्रेण हयग्रीवस्तु दानवः स्यन्दनं वाहयामास सपत्नानीकमर्दनः
व्यायतं किष्कुसाहस्रं धनुर्विस्फारयन्महत् वराहः प्रमुखे तस्थौ सप्ररोह इवाचलः
खरस्तु विक्षरन्दर्पान् नेत्राभ्यां रोषजं जलम् स्फुरद्दन्तोष्ठनयनः सङ्ग्रामं सो ऽभ्यकाङ्क्षत
त्वष्टा त्वष्टगजं घोरं यानमास्थाय दानवः व्यूहितुं दानवव्यूहं परिचक्राम वीर्यवान्
विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः श्वेतशैलप्रतीकाशो युद्धायाभिमुखे स्थितः
अरिष्टो बलिपुत्रश्च वरिष्ठो ऽद्रिशिलायुधः युद्धायाभिमुखस्तस्थौ धराधरविकम्पनः
किशोरस्त्वतिसंहर्षात् किशोर इति चोदितः सबला दानवाश्चैव संनह्यन्ते यथाक्रमम्
अभवद्दैत्यसैन्यस्य मध्ये रविरिवोदितः लम्बस्तु नवमेघाभः प्रलम्बाम्बरभूषणः
दैत्यव्यूहगतो भाति सनीहार इवांशुमान् स्वर्भानुरास्ययोधी तु दशनोष्ठेक्षणायुधः
हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः अन्ये हयगतास्तत्र गजस्कन्धगताः परे
सिंहव्याघ्रगताश्चान्ये वराहर्क्षेषु चापरे केचित्खरोष्ट्रयातारः केचिच्छ्वापदवाहनाः
पत्तिनस्त्वपरे दैत्या भीषणा विकृताननाः एकपादार्धपादाश्च ननृतुर्युद्धकाङ्क्षिणः
आस्फोटयन्तो बहवः क्ष्वेडन्तश्च तथा परे हृष्टशार्दूलनिर्घोषा नेदुर्दानवपुंगवाः
ते गदापरिघैरुग्रैः शिलामुसलपाणयः बाहुभिः परिघाकारैस् तर्जयन्ति स्म देवताः
पाशैः प्रासैश्च परिघैस् तोमराङ्कुशपट्टिशैः चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः
गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायसैः चक्रैश्च दैत्यप्रवराश् चक्रुर् आनन्दितं बलम्
एतद्दानवसैन्यं तत् सर्वं युद्धमदोत्कटम् देवानभिमुखे तस्थौ मेघानीकमिवोद्धतम्
तदद्भुतं दैत्यसहस्रगाढं वाय्वग्निशैलाम्बुदतोयकल्पम् बलं रणौघाभ्युदये ऽभ्युदीर्णं युयुत्सयोन्मत्तम् इवाबभासे
श्रुतस्ते दैत्यसैन्यस्य विस्तारो रविनन्दन सुराणामपि सैन्यस्य विस्तारं वैष्णवं शृणु
आदित्या वसवो रुद्रा अश्विनौ च महाबलौ सबलाः सानुगाश्चैव संनह्यन्त यथाक्रमम्
पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक् ग्रामणीः सर्वदेवानाम् आरुरोह सुरद्विपम्
मध्ये चास्य रथः सर्वपक्षिप्रवरहंसः सुचारुचक्रचरणो हेमवज्रपरिष्कृतः
देवगन्धर्वयक्षौघैर् अनुयातः सहस्रशः दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः
वज्रविस्फूर्जितोद्भूतैर् विद्युदिन्द्रायुधोदितैः युक्तो बलाहकगणैः पर्वतैरिव कामगैः
यमारूढः स भगवान् पर्येति सकलं जगत् हविर्धानेषु गायन्ति विप्रा मखमुखे स्थिताः