ददृशुस्ते स्थितं देवं दिव्ये लोकमये रथे ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः
जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः स तेषां तां गिरं श्रुत्वा विष्णुर्दैवतदैवतम्
मनश्चक्रे विनाशाय दानवानां महामृधे आकाशे तु स्थितो विष्णुर् उत्तमं वपुरास्थितः
उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः शान्तिं व्रजत भद्रं वो मा भैष्ट मरुतां गणाः
जिता मे दानवाः सर्वे त्रैलोक्यं परिगृह्यताम् ते तस्य सत्यसंधस्य विष्णोर्वाक्येन तोषिताः
देवाः प्रीतिं समाजग्मुः प्राश्यामृतमिवोत्तमम् ततस्तमः संहृतं तद् विनेशुश्च बलाहकाः
प्रववुश्च शिवा वाताः प्रशान्ताश्च दिशो दश शुद्धप्रभाणि ज्योतींषि सोमश्चक्रुः प्रदक्षिणाम्
न विग्रहं ग्रहाश्चक्रुः प्रशान्ताश्चापि सिन्धवः विरजस्काभवन्मार्गा नाकवर्गादयस्त्रयः
यथार्थमूहुः सरितो नापि चुक्षुभिरे ऽर्णवाः आसञ्छुभानीन्द्रियाणि नराणामन्तरात्मसु
महर्षयो वीतशोका वेदान् उच्चैरधीयत यज्ञेषु च हविः पाकं शिवमाप च पावकः
प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः विष्णोर्दत्तप्रतिज्ञस्य श्रुत्वारिनिधने गिरम्
ततो ऽभयं विष्णुवचः श्रुत्वा दैत्याश्च दानवाः उद्योगं विपुलं चक्रुर् युद्धाय विजयाय च
मयस्तु काञ्चनमयं त्रिनल्वायतमक्षयम् चतुश्चक्रं सुविपुलं सुकल्पितमहायुगम्
किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् रुचिरं रत्नजालैश्च हेमजालैश्च शोभितम्
ईहामृगगणाकीर्णं पक्षिपङ्क्तिविराजितम् दिव्यास्त्रतूणीरधरं पयोधरविनादितम्
स्वक्षं रथवरोदारं सूपस्थं गगनोपमम् गदापरिघसम्पूर्णं मूर्तिमन्तमिवार्णवम्
हेमकेयूरवलयं स्वर्णमण्डलकूबरम् सपताकध्वजोपेतं सादित्यमिव मन्दरम्
गजेन्द्राभोगवपुषं क्वचित्केसरिवर्चसम् युक्तमृक्षसहस्रेण समृद्धाम्बुदनादितम्
दीप्तमाकाशगं दिव्यं रथं पररथारुजम् अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्त इवांशुमान्
तारमुत्क्रोशविस्तारं सर्वं हेममयं रथम् शैलाकारमसंबाधं नीलाञ्जनचयोपमम्
कार्ष्णायसमयं दिव्यं लोहेषाबद्धकूबरम् तिमिरोद्गारिकिरणं गर्जन्तमिव तोयदम्
लोहजालेन महता सगवाक्षेण दंशितम् आयसैः परिघैः पूर्णं क्षेपणीयैश्च मुद्गरैः
प्रासैः पाशैश्च विततैर् असंयुक्तैश्च कण्टकैः शोभितं त्रासयानैश्च तोमरैश्च परश्वधैः
उद्यन्तं द्विषतां हेतोर् द्वितीयमिव मन्दरम् युक्तं खरसहस्रेण सो ऽध्यारोहद्रथोत्तमम्
विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः
युक्तं रथसहस्रेण हयग्रीवस्तु दानवः स्यन्दनं वाहयामास सपत्नानीकमर्दनः
व्यायतं किष्कुसाहस्रं धनुर्विस्फारयन्महत् वराहः प्रमुखे तस्थौ सप्ररोह इवाचलः
खरस्तु विक्षरन्दर्पान् नेत्राभ्यां रोषजं जलम् स्फुरद्दन्तोष्ठनयनः सङ्ग्रामं सो ऽभ्यकाङ्क्षत
त्वष्टा त्वष्टगजं घोरं यानमास्थाय दानवः व्यूहितुं दानवव्यूहं परिचक्राम वीर्यवान्
विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः श्वेतशैलप्रतीकाशो युद्धायाभिमुखे स्थितः