बलाहकाञ्जननिभं बलाहकतनूरुहम् तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम्
दीप्तपीताम्बरधरं तप्तकाञ्चनभूषणम् धूमान्धकारवपुषं युगान्ताग्निमिवोत्थितम्
चतुर्द्विगुणपीनांसं किरीटच्छन्नमूर्धजम् बभौ चामीकरप्रख्यैर् आयुधैरुपशोभितम्
चन्द्रार्ककिरणोद्द्योतं गिरिकूटमिवोच्छ्रितम् नन्दकानन्दितकरं शराशीविषधारिणम्
शक्तिचित्रबलोदग्रं शङ्खचक्रगदाधरम् विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गशृङ्गिणम्
त्रिदशोदारफलदं स्वर्गस्त्रीचारुपल्लवम् सर्वलोकमनःकान्तं सर्वसत्त्वमनोहरम्
नानविमानविटपं तोयदाम्बुमधुस्रवम् विद्याहंकारसाराढ्यं महाभूतप्ररोहणम्
विशेषपत्रैर्निचितं ग्रहनक्षत्रपुष्पितम् दैत्यलोकमहास्कन्धं मर्त्यलोकप्रकाशितम्
सागराकारनिर्ह्रादं रसातलमहाश्रयम् मृगेन्द्रपाशैर्विततं पक्षजन्तुनिषेवितम्
शीलार्थचारुगन्धाढ्यं सर्वलोकमहाद्रुमम् अव्यक्तानन्तसलिलं व्यक्ताहंकारफेनिलम्
महाभूततरङ्गौघं ग्रहनक्षत्रबुद्बुदम् विमानविहगव्यातं तोयदाडम्बराकुलम्
जन्तुमत्स्यगणाकीर्णं शैलशङ्खकुलैर्युतम् त्रैगुण्यविषयावर्तं सर्वलोकतिमिङ्गिलम्
वीरवृक्षलतागुल्मं भुजगोत्कृष्टशैवलम् द्वादशार्कमहाद्वीपं रुद्रैकादशपत्तनम्
वस्वष्टपर्वतोपेतं त्रैलोक्याम्भोमहोदधिम् संध्यासंख्योर्मिसलिलं सुपर्णानिलसेवितम्
दैत्यरक्षोगणग्राहं यक्षोरगझषाकुलम् पितामहमहावीर्यं सर्वस्त्रीरत्नशोभितम्
श्रीकीर्तिकान्तिलक्ष्मीभिर् नदीभिर् उपशोभितम् कालयोगिमहापर्वप्रलयोत्पत्तिवेगिनम्
तं तु योगमहापारं नारायणमहार्णवम् देवाधिदेवं वरदं भक्तानां भक्तिवत्सलम्
अनुग्रहकरं देवं प्रशान्तिकरणं शुभम् हर्यश्वरथसंयुक्ते सुपर्णध्वजसेविते
ग्रहचन्द्रार्करचिते मन्दराक्षवरावृते अनन्तरश्मिभिर्युक्ते विस्तीर्णे मेरुगह्वरे
तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः
ददृशुस्ते स्थितं देवं दिव्ये लोकमये रथे ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः
जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः स तेषां तां गिरं श्रुत्वा विष्णुर्दैवतदैवतम्
मनश्चक्रे विनाशाय दानवानां महामृधे आकाशे तु स्थितो विष्णुर् उत्तमं वपुरास्थितः
उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः शान्तिं व्रजत भद्रं वो मा भैष्ट मरुतां गणाः
जिता मे दानवाः सर्वे त्रैलोक्यं परिगृह्यताम् ते तस्य सत्यसंधस्य विष्णोर्वाक्येन तोषिताः
देवाः प्रीतिं समाजग्मुः प्राश्यामृतमिवोत्तमम् ततस्तमः संहृतं तद् विनेशुश्च बलाहकाः
प्रववुश्च शिवा वाताः प्रशान्ताश्च दिशो दश शुद्धप्रभाणि ज्योतींषि सोमश्चक्रुः प्रदक्षिणाम्
न विग्रहं ग्रहाश्चक्रुः प्रशान्ताश्चापि सिन्धवः विरजस्काभवन्मार्गा नाकवर्गादयस्त्रयः
यथार्थमूहुः सरितो नापि चुक्षुभिरे ऽर्णवाः आसञ्छुभानीन्द्रियाणि नराणामन्तरात्मसु
महर्षयो वीतशोका वेदान् उच्चैरधीयत यज्ञेषु च हविः पाकं शिवमाप च पावकः