यत्र ते दानवा घोराः सर्वे सङ्ग्रामदुर्जयाः घ्नन्ति देवगणान्सर्वान् सयक्षोरगराक्षसान्
ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे त्रातारं मनसा जग्मुर् देवं नारायणं प्रभुम्
एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम्
चण्डा विद्युद्गणोपेता घोरनिर्ह्रादकारिणः अन्योन्यवेगाभिहताः प्रववुः सह मारुताः
दीप्ततोयाशनिपनैर् वज्रवेगानलानिलैः रवैः सुघोरैरुत्पातैर् दह्यमानम् इवाम्बरम्
तत उल्कासहस्राणि निपेतुः खगतान्यपि दिव्यानि च विमानानि प्रपतन्त्युत्पतन्ति च
चतुर्युगान्तपर्याये लोकानां यद्भयं भवेत् अरूपवन्ति रूपाणि तस्मिन्नुत्पातलक्षणे
जातं च निष्प्रभं सर्वं न प्राज्ञायत किंचन तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश
विवेश रूपिणी काली कालमेघावगुण्ठिता द्यौर्न भात्यभिभूतार्का घोरेण तमसावृता
तान्घनौघान्स तिमिरान् दोर्भ्यामाक्षिप्य स प्रभुः वपुः संदर्शयामास दिव्यं कृष्णवपुर्हरिः
बलाहकाञ्जननिभं बलाहकतनूरुहम् तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम्
दीप्तपीताम्बरधरं तप्तकाञ्चनभूषणम् धूमान्धकारवपुषं युगान्ताग्निमिवोत्थितम्
चतुर्द्विगुणपीनांसं किरीटच्छन्नमूर्धजम् बभौ चामीकरप्रख्यैर् आयुधैरुपशोभितम्
चन्द्रार्ककिरणोद्द्योतं गिरिकूटमिवोच्छ्रितम् नन्दकानन्दितकरं शराशीविषधारिणम्
शक्तिचित्रबलोदग्रं शङ्खचक्रगदाधरम् विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गशृङ्गिणम्
त्रिदशोदारफलदं स्वर्गस्त्रीचारुपल्लवम् सर्वलोकमनःकान्तं सर्वसत्त्वमनोहरम्
नानविमानविटपं तोयदाम्बुमधुस्रवम् विद्याहंकारसाराढ्यं महाभूतप्ररोहणम्
विशेषपत्रैर्निचितं ग्रहनक्षत्रपुष्पितम् दैत्यलोकमहास्कन्धं मर्त्यलोकप्रकाशितम्
सागराकारनिर्ह्रादं रसातलमहाश्रयम् मृगेन्द्रपाशैर्विततं पक्षजन्तुनिषेवितम्
शीलार्थचारुगन्धाढ्यं सर्वलोकमहाद्रुमम् अव्यक्तानन्तसलिलं व्यक्ताहंकारफेनिलम्
महाभूततरङ्गौघं ग्रहनक्षत्रबुद्बुदम् विमानविहगव्यातं तोयदाडम्बराकुलम्
जन्तुमत्स्यगणाकीर्णं शैलशङ्खकुलैर्युतम् त्रैगुण्यविषयावर्तं सर्वलोकतिमिङ्गिलम्
वीरवृक्षलतागुल्मं भुजगोत्कृष्टशैवलम् द्वादशार्कमहाद्वीपं रुद्रैकादशपत्तनम्
वस्वष्टपर्वतोपेतं त्रैलोक्याम्भोमहोदधिम् संध्यासंख्योर्मिसलिलं सुपर्णानिलसेवितम्
दैत्यरक्षोगणग्राहं यक्षोरगझषाकुलम् पितामहमहावीर्यं सर्वस्त्रीरत्नशोभितम्
श्रीकीर्तिकान्तिलक्ष्मीभिर् नदीभिर् उपशोभितम् कालयोगिमहापर्वप्रलयोत्पत्तिवेगिनम्
तं तु योगमहापारं नारायणमहार्णवम् देवाधिदेवं वरदं भक्तानां भक्तिवत्सलम्
अनुग्रहकरं देवं प्रशान्तिकरणं शुभम् हर्यश्वरथसंयुक्ते सुपर्णध्वजसेविते
ग्रहचन्द्रार्करचिते मन्दराक्षवरावृते अनन्तरश्मिभिर्युक्ते विस्तीर्णे मेरुगह्वरे
तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः