विष्णुत्वं शृणु विष्णोश्च हरित्वं च कृते युगे वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च
ईश्वरस्य हि तस्यैषा कर्मणां गहना गतिः संप्रत्यतीतान्भव्यांश्च शृणु राजन्यथातथम्
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः नारायणो ह्यनन्तात्मा प्रभवो ऽव्यय एव च
एष नारायणो भूत्वा हरिरासीत्सनातनः ब्रह्मा वायुश्च सोमश्च धर्मः शक्रो बृहस्पतिः
अदितेरपि पुत्रत्वम् एव याति युगे युगे एष विष्णुरिति ख्यात इन्द्रस्यावरजो विभुः
प्रसादजं ह्यस्य विभोर् अदित्याः पुत्रकारणम् वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम्
प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत्प्रभुः सो ऽसृजत्पूर्वपुरुषः पुराकल्पे प्रजापतीन्
असृजन्मानवांस्तत्र ब्रह्मवंशाननुत्तमान् तेभ्यो ऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम्
एतदाश्चर्यभूतस्य विष्णोः कर्मानुकीर्तनम् कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे
वृते वृत्रवधे तत्र वर्तमाने कृते युगे आसीत्त्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः
यत्र ते दानवा घोराः सर्वे सङ्ग्रामदुर्जयाः घ्नन्ति देवगणान्सर्वान् सयक्षोरगराक्षसान्
ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे त्रातारं मनसा जग्मुर् देवं नारायणं प्रभुम्
एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम्
चण्डा विद्युद्गणोपेता घोरनिर्ह्रादकारिणः अन्योन्यवेगाभिहताः प्रववुः सह मारुताः
दीप्ततोयाशनिपनैर् वज्रवेगानलानिलैः रवैः सुघोरैरुत्पातैर् दह्यमानम् इवाम्बरम्
तत उल्कासहस्राणि निपेतुः खगतान्यपि दिव्यानि च विमानानि प्रपतन्त्युत्पतन्ति च
चतुर्युगान्तपर्याये लोकानां यद्भयं भवेत् अरूपवन्ति रूपाणि तस्मिन्नुत्पातलक्षणे
जातं च निष्प्रभं सर्वं न प्राज्ञायत किंचन तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश
विवेश रूपिणी काली कालमेघावगुण्ठिता द्यौर्न भात्यभिभूतार्का घोरेण तमसावृता
तान्घनौघान्स तिमिरान् दोर्भ्यामाक्षिप्य स प्रभुः वपुः संदर्शयामास दिव्यं कृष्णवपुर्हरिः
बलाहकाञ्जननिभं बलाहकतनूरुहम् तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम्
दीप्तपीताम्बरधरं तप्तकाञ्चनभूषणम् धूमान्धकारवपुषं युगान्ताग्निमिवोत्थितम्
चतुर्द्विगुणपीनांसं किरीटच्छन्नमूर्धजम् बभौ चामीकरप्रख्यैर् आयुधैरुपशोभितम्
चन्द्रार्ककिरणोद्द्योतं गिरिकूटमिवोच्छ्रितम् नन्दकानन्दितकरं शराशीविषधारिणम्
शक्तिचित्रबलोदग्रं शङ्खचक्रगदाधरम् विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गशृङ्गिणम्
त्रिदशोदारफलदं स्वर्गस्त्रीचारुपल्लवम् सर्वलोकमनःकान्तं सर्वसत्त्वमनोहरम्
नानविमानविटपं तोयदाम्बुमधुस्रवम् विद्याहंकारसाराढ्यं महाभूतप्ररोहणम्
विशेषपत्रैर्निचितं ग्रहनक्षत्रपुष्पितम् दैत्यलोकमहास्कन्धं मर्त्यलोकप्रकाशितम्
सागराकारनिर्ह्रादं रसातलमहाश्रयम् मृगेन्द्रपाशैर्विततं पक्षजन्तुनिषेवितम्
शीलार्थचारुगन्धाढ्यं सर्वलोकमहाद्रुमम् अव्यक्तानन्तसलिलं व्यक्ताहंकारफेनिलम्