ओषध्यः प्रवरायाश्च सुरस्यास्ताः समुत्थिताः धर्माल्लक्ष्मीस्तथा कामं साध्या साध्यान्व्यजायत
भवं च प्रभवं चैव हीशं चासुरहं तथा अरुणं चारुणिं चैव विश्वावसुबलध्रुवौ
हविष्यं च वितानं च विधानशमितावपि वत्सरं चैव भूतिं च सर्वासुरनिषूदनम्
सुपर्वाणं बृहत्कान्तिः साध्या लोकनमस्कृताः वासवानुगता देवी जनयामास वै सुरान्
वरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम् विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरम्
ततो ऽनुरूपमायं च यमस्तस्मादनन्तरम् सप्तमं च तथा वायुम् अष्टमं निरृतिं वसुम्
धर्मस्यापत्यम् एतद्वै सुदेव्यां समजायत विश्वे देवाश्च विश्वायां धर्माज्जाता इति श्रुतिः
दक्षश्चैव महाबाहुः पुष्करस्वन एव च चाक्षुषस्तु मनुश्चैव तथा मधुमहोरगौ
विश्रान्तकवपुर्बालो विष्कम्भश्च महायशाः गरुडश्चातिसत्त्वौजा भास्करप्रतिमद्युतिः
विश्वान्देवान्देवमाता विश्वेशाजनयत् सुतान् मरुत्वती मरुत्वतो देवानजनयत्सुतान्
अग्निं चक्षुं रविर्ज्योतिः सावित्रं मित्रमेव च अमरं शरवृष्टिं च सुकर्षं च महाभुजम्
विराजं चैव वाचं च विश्वावसुमतिं तथा अश्वमित्रं चित्ररश्मिं तथा निषधनं नृप
हूयन्तं वाडवं चैव चारित्रं मन्दपन्नगम् बृहन्तं वै बृहद्रूपं तथा वै पूतनानुगम्
मरुत्वती पुरा जज्ञ एतान्वै मरुतां गणान् अदितिः कश्यपाज्जज्ञ आदित्यान्द्वादशैव हि
इन्द्रो विष्णुर्भगस्त्वष्टा वरुणो ह्यर्यमा रविः पूषा मित्रश्च धनदो धाता पर्जन्य एव च
इत्येते द्वादशादित्या वरिष्ठास्त्रिदिवौकसः आदित्यस्य सरस्वत्यां जज्ञाते द्वौ सुतौ वरौ
तपःश्रेष्ठौ गुणश्रेष्ठौ त्रिदिवस्यापि संमतौ दनुस्तु दानवाञ्जज्ञे दितिर्दैत्यान्व्यजायत
काला तु वै कालकेयान् असुरान्सुरसा तु वै अनायुषायास्तनया व्याधयः सुमहाबलाः
सिंहिका ग्रहमाता वै गन्धर्वजननी मुनिः ताम्रा त्वप्सरसां माता पुण्यानां भारतोद्भव
क्रोधायाः सर्वभूतानि पिशाचाश्चैव पार्थिव जज्ञे यक्षगणांश्चैव राक्षसांश्च विशांपते
चतुष्पदानि सत्त्वानि तथा गावस्तु सौरभाः सुपर्णान्पक्षिणश्चैव विनता च व्यजायत
महीधरान्सर्वनागान् देवी कद्रूर्व्यजायत एवं वृद्धिं समगमन् विश्वे लोकाः परंतप
तदा वै पौष्करो राजन् प्रादुर्भावो महात्मनः प्रादुर्भावः पौष्करस्ते मया द्वैपायनेरितः
पुराणः पुरुषश्चैव मया विष्णुर्हरिः प्रभुः कथितस्ते ऽनुपूर्वेण संस्तुतः परमर्षिभिः
यश्चेदमग्र्यं शृणुयात् पुराणं सदा नरः पर्वसु गौरवेण अवाप्य लोकान्स हि वीतरागः परत्र च स्वर्गफलानि भुङ्क्ते
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् प्रसादयति यः कृष्णं तं कृष्णो ऽनुप्रसीदति
राजा च लभते राज्यम् अधनश्चोत्तमं धनम् क्षीणायुर्लभते चायुः पुत्रकामः सुतं तथा
यज्ञा वेदास्तथा कामास् तपांसि विविधानि च प्राप्नोति विविधं पुण्यं विष्णुभक्तो धनानि च
यद्यत्कामयते किंचित् तत्तल्लोकेश्वराद् भवेत् सर्वं विहाय य इमं पठेत्पौष्करकं हरेः
प्रादुर्भावं नृपश्रेष्ठ न तस्य ह्यशुभं भवेत् एष पौष्करको नाम प्रादुर्भावो महात्मनः कीर्तितस्ते महाभाग व्यासश्रुतिनिदर्शनात्