तपसा तेजसा चैव वर्चसा नियमेन च सदृशीमात्मनो देवीं समर्थां लोकसर्जने
तया समाहितस्तत्र रेमे ब्रह्मा तपश्चरन् ततो जगाद त्रिपदां गायत्रीं वेदपूजिताम्
सृजन्प्रजानां पतयः सागरांश्चासृजद्विभुः अपरांश्चैव चतुरो वेदान्गायत्रिसंभवान्
आत्मनः सदृशान्पुत्रान् असृजद्वै पितामहः विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः
विश्वेशं प्रथमं तावन् महातापसमात्मजम् सर्वमन्त्रहितं पुण्यं नाम्ना धर्मं स सृष्टवान्
दक्षं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् वसिष्ठं गौतमं चैव भृगुमङ्गिरसं मनुम्
अथैवाद्भुतमित्येते ज्ञेयाः पैतामहर्षयः त्रयोदशगुणं धर्मम् आलभन्त महर्षयः
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः ताम्रा क्रोधाथ सुरता विनता कद्रुरेव च
दक्षस्यापत्यमेता वै कन्या द्वादश पार्थिव मरीचेः कश्यपः पुत्रस् तपसा निर्मितः किल
तस्मै कन्या द्वादशान्या दक्षस्ताः प्रददौ तदा नक्षत्राणि च सोमाय तदा वै दत्तवानृषिः
रोहिण्यादीनि सर्वाणि पुण्यानि रविनन्दन लक्ष्मीर्मरुत्वती साध्या विश्वेशा च मता शुभा
देवी सरस्वती चैव ब्रह्मणा निर्मिताः पुरा एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय पार्थिव
दत्ता भद्राय धर्माय ब्रह्मणा दृष्टकर्मणा या तु रूपवती पत्नी ब्रह्मणः कामरूपिणी
सुरभिः सा हिता भूत्वा ब्रह्माणं समुपस्थिता ततस्तामगमद्ब्रह्मा मैथुनं लोकपूजितः
लोकसर्जनहेतुज्ञो गवामर्थाय सत्तमः जज्ञिरे च सुतास्तस्यां विपुला धूमसंनिभाः
नक्तसंध्याभ्रसंकाशाः प्रादहंस्तिग्मतेजसः ते रुदन्तो द्रवन्तश्च गर्हयन्तः पितामहम्
रोदनाद्रवणाच्चैव रुद्रा इति ततः स्मृताः निरृतिश्चैव शंभुर्वै तृतीयश्चापराजितः
मृगव्याधः कपर्दी च दहनो ऽथेश्वरश्च वै अहिर्बुध्न्यश्च भगवान् कपाली चापि पिङ्गलः
सेनानीश्च महातेजा रुद्रास्त्वेकादश स्मृताः तस्यामेव सुरभ्यां च गावो यज्ञेश्वराश्च वै
प्रकृष्टाश्च तथा मायाः सुरभ्याः पशवो ऽक्षराः अजाश्चैव तु हंसाश्च तथैवामृतमुत्तमम्
ओषध्यः प्रवरायाश्च सुरस्यास्ताः समुत्थिताः धर्माल्लक्ष्मीस्तथा कामं साध्या साध्यान्व्यजायत
भवं च प्रभवं चैव हीशं चासुरहं तथा अरुणं चारुणिं चैव विश्वावसुबलध्रुवौ
हविष्यं च वितानं च विधानशमितावपि वत्सरं चैव भूतिं च सर्वासुरनिषूदनम्
सुपर्वाणं बृहत्कान्तिः साध्या लोकनमस्कृताः वासवानुगता देवी जनयामास वै सुरान्
वरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम् विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरम्
ततो ऽनुरूपमायं च यमस्तस्मादनन्तरम् सप्तमं च तथा वायुम् अष्टमं निरृतिं वसुम्
धर्मस्यापत्यम् एतद्वै सुदेव्यां समजायत विश्वे देवाश्च विश्वायां धर्माज्जाता इति श्रुतिः
दक्षश्चैव महाबाहुः पुष्करस्वन एव च चाक्षुषस्तु मनुश्चैव तथा मधुमहोरगौ
विश्रान्तकवपुर्बालो विष्कम्भश्च महायशाः गरुडश्चातिसत्त्वौजा भास्करप्रतिमद्युतिः
विश्वान्देवान्देवमाता विश्वेशाजनयत् सुतान् मरुत्वती मरुत्वतो देवानजनयत्सुतान्