प्रज्वलन्निव तेजोभिर् भाभिः स्वाभिस्तमोनुदः बभासे सर्वधर्मस्थः सहस्रांशुरिवांशुभिः
अथान्यद्रूपमास्थाय शंभुर्नारायणो ऽव्ययः आजगाम महातेजा योगाचार्यो महायशाः
सांख्याचार्यो हि मतिमान् कपिलो ब्राह्मणो वरः उभावपि महात्मानौ स्तुवन्तौ क्षेत्रतत्परौ
तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम् परावरविशेषज्ञौ पूजितौ च महर्षिभिः
ब्रह्मात्मदृढबन्धश्च विशालो जगदास्थितः ग्रामणीः सर्वभूतानां ब्रह्मा त्रैलोक्यपूजितः
तयोस्तद्वचनं श्रुत्वा ब्रह्माभ्याहृतयोगवित् त्रीनिमान् कृतवांल्लोकान् यथेयं ब्रह्मणः श्रुतिः
पुत्रं च शंभवे चैकं समुत्पादितवानृषिः तस्याग्रे वाग्यतस्तस्थौ ब्रह्मा तामसमव्ययम्
सोत्पन्नमात्रो ब्रह्माणम् उक्तवान्मानसः सुतः किं कुर्मस्तव साहाय्यं ब्रवीतु भगवानृषिः
य एष कपिलो ब्रह्म नारायणमयस्तथा वदते भवतस्तत्त्वं तत्कुरुष्व महामते
ब्रह्मणस्तु तदर्थं तु तदा भूयः समुत्थितः शुश्रूषुरस्मि युवयोः किं करोमि कृताञ्जलिः
यत्सत्यमक्षरं ब्रह्म ह्य् अष्टादशविधं तु तत् यत्सत्यं यदृतं तत्तु परं पदमनुस्मर
एतद्वचो निशम्यैव ययौ स दिशमुत्तराम् गत्वा च तत्र ब्रह्मत्वम् अगमज्ज्ञानतेजसा
ततो ब्रह्मा भुवं नाम द्वितीयमसृजत्प्रभुः संकल्पयित्वा मनसा तमेव च महामनाः
ततः सो ऽथाब्रवीद्वाक्यं किं करोमि पितामह पितामहसमाज्ञातो ब्रह्माणं समुपस्थितः
ब्रह्माभ्यासं तु कृतवान् भुवश्च पृथिवीं गतः प्राप्तश्च परमं स्थानं स तयोः पार्श्वमागतः
तस्मिन्नपि गते पुत्रे तृतीयमसृजत्प्रभुः मोक्षप्रवृत्तिकुशलं भूर्भुवं नामतो विभुम्
गोपतित्वं समासाद्य तयोरेवागमद्गतिम् एवं पुत्रास्त्रयो ऽप्येत उक्ताः शंभोर्महात्मनः
तान्गृहीत्वा सुतांस्तस्य प्रयातः स्वार्जितां गतिम् नारायणश्च भगवान् कपिलश्च यतीश्वरः
यं कालं तौ गतौ मुक्तौ ब्रह्मा तं कालमेव हि ततो घोरतमं भूयः संश्रितः परमं व्रतम्
न रेमे ऽथ ततो ब्रह्मा प्रभुरेकस्तपश्चरन् शरीरार्धात्ततो भार्यां समुत्पादितवाञ्छुभाम्
तपसा तेजसा चैव वर्चसा नियमेन च सदृशीमात्मनो देवीं समर्थां लोकसर्जने
तया समाहितस्तत्र रेमे ब्रह्मा तपश्चरन् ततो जगाद त्रिपदां गायत्रीं वेदपूजिताम्
सृजन्प्रजानां पतयः सागरांश्चासृजद्विभुः अपरांश्चैव चतुरो वेदान्गायत्रिसंभवान्
आत्मनः सदृशान्पुत्रान् असृजद्वै पितामहः विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः
विश्वेशं प्रथमं तावन् महातापसमात्मजम् सर्वमन्त्रहितं पुण्यं नाम्ना धर्मं स सृष्टवान्
दक्षं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् वसिष्ठं गौतमं चैव भृगुमङ्गिरसं मनुम्
अथैवाद्भुतमित्येते ज्ञेयाः पैतामहर्षयः त्रयोदशगुणं धर्मम् आलभन्त महर्षयः
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः ताम्रा क्रोधाथ सुरता विनता कद्रुरेव च
दक्षस्यापत्यमेता वै कन्या द्वादश पार्थिव मरीचेः कश्यपः पुत्रस् तपसा निर्मितः किल
तस्मै कन्या द्वादशान्या दक्षस्ताः प्रददौ तदा नक्षत्राणि च सोमाय तदा वै दत्तवानृषिः