तौ रजस्तमसौ विष्णोः सम्भूतौ तामसौ गणौ एकार्णवे जगत्सर्वं क्षोभयन्तौ महाबलौ
दिव्यरक्ताम्बरधरौ श्वेतदीप्तोग्रदंष्ट्रिणौ किरीटकुण्डलोदग्रौ केयूरवलयोज्ज्वलौ
महाविवृतताम्राक्षौ पीनोरस्कौ महाभुजौ महागिरेः संहननौ जङ्गमाविव पर्वतौ
नवमेघप्रतीकाशाव् आदित्यसदृशाननौ विद्युदाभौ गदाग्राभ्यां कराभ्यामतिभीषणौ
तौ पादयोस्तु विन्यासाद् उत्क्षिपन्ताविवार्णवम् कम्पयन्ताविव हरिं शयानं मधुसूदनम्
तौ तत्र विचरन्तौ स्म पुष्करे विश्वतोमुखम् योगिनां श्रेष्ठमासाद्य दीप्तं ददृशतुस्तदा
नारायणसमाज्ञातं सृजन्तमखिलाः प्रजाः दैवतानि च विश्वानि मानसानसुरानृषीन्
ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ दीप्तौ मुमूर्षू संक्रुद्धौ रोषव्याकुलितेक्षणौ
कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्भुजः आधाय नियमं मोहाद् आस्ते त्वं विगतज्वरः
एह्यागच्छावयोर् युद्धं देहि त्वं कमलोद्भव आवाभ्यां परमीशाभ्याम् अशक्तस्त्वमिहार्णवे
तत्र कश्चोद्भवस्तुभ्यं केन वासि न योजितः कः स्रष्टा कश्च ते गोप्ता केन नाम्ना विधीयसे
एक इत्युच्यते लोकैर् अविचिन्त्यः सहस्रदृक् तत्संयोगेन भवतोः कर्म नामावगच्छताम्
नावयोः परमं लोके किंचिदस्ति महामते आवाभ्यां छाद्यते विश्वं तमसा रजसाथ वै
रजस्तमोमयावावाम् ऋषीणाम् अवलङ्घितौ छाद्यमानौ धर्मशीलौ दुस्तरौ सर्वदेहिनाम्
आवाभ्यामुह्यते लोको दुष्कराभ्यां युगे युगे आवामर्थश्च कामश्च यज्ञः स्वर्गपरिग्रहः
सुखं यत्र मुदा युक्तं यत्र श्रीः कीर्तिरेव च येषां यत्काङ्क्षितं चैव तत्तदावां विचिन्तय
यत्नाद् योगवतो दृष्ट्या योगः पूर्वं मयार्जितः तं समाधाय गुणवत् सत्त्वं चास्मि समाश्रितः
यः परो योगमतिमान् योगाख्यः सत्त्वमेव च रजसस्तमसश्चैव यः स्रष्टा विश्वसंभवः
ततो भूतानि जायन्ते सात्त्विकानीतराणि च स एव हि युवां नांशे वशी देवो हनिष्यति
स्वपन्नेव ततः श्रीमान् बहुयोजनविस्तृतम् बाहुं नारायणो ब्रह्मा कृतवानात्ममायया
कृष्यमाणौ ततस्तस्य बाहुना बाहुशालिनः चेरतुस्तौ विगलितौ शकुनाविव पीवरौ
ततस्तावाहतुर्गत्वा तदा देवं सनातनम् पद्मनाभं हृषीकेशं प्रणिपत्य स्थितावुभौ
जानीवस्त्वां विश्वयोनिं त्वामेकं पुरुषोत्तमम् त्वमावां पाहि हेत्वर्थम् इदं नौ बुद्धिकारणम्
अमोघदर्शनः स त्वं यतस्त्वां विद्वः शाश्वतम् ततस्त्वामागतावावाम् अभितः प्रसमीक्षितुम्
तदिच्छामो वरं देव त्वत्तो ऽद्भुतम् अरिंदम अमोघदर्शनो ऽसि त्वं नमस्ते समितिंजय
किमर्थं हि द्रुतं ब्रूतं वरं ह्यसुरसत्तमौ दत्तायुष्कौ पुनर्भूयो रहो जीवितुम् इच्छथः
यस्मिन्न कश्चिन्मृतवान् देव तस्मिन्प्रभो वधम् तमिच्छावो वधश्चैव त्वत्तो नो ऽस्तु महाव्रत
बाढं युवां तु प्रवरौ भविष्यत्कालसंभवे भविष्यतो न संदेहः सत्यमेतद्ब्रवीमि वाम्
वरं प्रदायाथ महासुराभ्यां सनातनो विश्ववरः सुरोत्तमः रजस्तमोवर्गभवायनौ यमौ ममन्थ तावूरुतलेन वै प्रभुः
स्थित्वा च तस्मिन्कमले ब्रह्मा ब्रह्मविदां वरः ऊर्ध्वबाहुर्महातेजास् तपो घोरं समाश्रितः