श्रद्धा पुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः आयुः पुत्रान् धनं विद्यां स्वर्गं मोक्षं सुखानि च
राज्यं चैव प्रयच्छन्ति प्रीताः पितृगणा नृणाम् श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः पञ्चभिर्जन्मसम्बन्धैर् गता विष्णोः परं पदम्
कथं कौशिकदायादाः प्राप्तास्ते योगमुत्तमम् पञ्चभिर्जन्मसम्बन्धैः कथं कर्मक्षयो भवेत्
कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः नामतः कर्मतस्तस्य सुतान्सप्त निबोधत
श्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च वाग्दुष्टः पितृवर्ती च गर्गशिष्यास्तदाभवन्
पितर्युपरते तेषाम् अभूद्दुर्भिक्षमुल्बणम् अनावृष्टिश्च महती सर्वलोकभयंकरी
गर्गादेशाद्वने दोग्ध्रीं रक्षन्तस्ते तपोधनाः खादामः कपिलामेतां वयं क्षुत्पीडिता भृशम्
इति चिन्तयतां पापं लघुः प्राह तदानुजः यद्यवश्यमियं वध्या श्राद्धरूपेण योज्यताम्
श्राद्धे नियोज्यमानेयं पापात्त्रास्यति नो ध्रुवम् एव कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः
चक्रे समाहितः श्राद्धम् उपयुज्य च तां पुनः द्वौ दैवे भ्रातरौ कृत्वा पित्रे त्रीनप्यनुक्रमात्
तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु चकार मन्त्रवच्छ्राद्धं स्मरन्पितृपरायणः
विना गवा वत्सको ऽपि गुरवे विनिवेदितः व्याघ्रेण निहता धेनुर् वत्सो ऽयं प्रतिगृह्यताम्
एवं सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयाः
ततः कालावकृष्टास्ते व्याधा दाशपुरे ऽभवन् जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः
यत्कृतं क्रूरकर्मापि श्राद्धरूपेण तैस्तदा तेन ते भवने जाता व्याधानां क्रूरकर्मिणाम्
पितॄणां चैव माहात्म्याज् जाता जातिस्मरास्तु ते ते तु वैराग्ययोगेन आस्थायानशनं पुनः
जातिस्मराः सप्त जाता मृगाः कालञ्जरे गिरौ नीलकण्ठस्य पुरतः पितृभावानुभाविताः
तत्रापि ज्ञानवैराग्यात् प्राणानुत्सृज्य धर्मतः लोकैर् अवेक्ष्यमाणास्ते तीर्थान्ते ऽनशनेन तु
मानसे चक्रवाकास्ते संजाताः सप्त योगिनः नामतः कर्मतः सर्वाञ् छृणुध्वं द्विजसत्तमाः
सुमनाः कुमुदः शुद्धश् छिद्रदर्शी सुनेत्रकः सुनेत्रश्चांशुमांश्चैव सप्तैते योगपारगाः
योगभ्रष्टास्त्रयस्तेषां बभ्रमुश् चाल्पचेतनाः दृष्ट्वा विभ्राजमानं तम् उद्याने स्त्रीभिरन्वितम्
क्रीडन्तं विविधैर्भावैर् महाबलपराक्रमम् पञ्चालान्वयसम्भूतं प्रभूतबलवाहनम्
राज्यकामो ऽभवच्चैकस् तेषां मध्ये जलौकसाम् पितृवर्ती च यो विप्रः श्राद्धकृत् पितृवत्सलः
अपरौ मन्त्रिणौ दृष्ट्वा प्रभूतबलवाहनौ मन्त्रित्वे चक्रतुश्चेच्छाम् अस्मिन्मर्त्ये द्विजोत्तमाः
तन्मध्ये ये तु निष्कामास् ते बभूवुर् द्विजोत्तमाः विभ्राजपुत्रस्त्वेको ऽभूद् ब्रह्मदत्त इति स्मृतः
मन्त्रिपुत्रौ तथा चोभौ कण्डरीकसुबालकौ ब्रह्मदत्तो ऽभिषिक्तः सन् पुरोहितविपश्चिता
पञ्चालराजो विक्रान्तः सर्वशास्त्रविशारदः योगवित्सर्वजन्तूनां रुतवेत्ताभवत्तदा
तस्य राज्ञो ऽभवद्भार्या देवलस्यात्मजा शुभा संनतिर्नाम विख्याता कपिला याभवत्पुरा
पितृकार्ये नियुक्तत्वाद् अभवद्ब्रह्मवादिनी तया चकार सहितः स राज्यं राजनन्दनः
कदाचिदुद्यानगतस् तया सह स पार्थिवः ददर्श कीटमिथुनम् अनङ्गकलहाकुलम्