विवर्धता बलवता वेगाद्विक्षोभितो ऽर्णवः तस्यार्णवस्य क्षुब्धस्य तस्मिन्नम्भसि मन्थिते कृष्णवर्त्मा समभवत् प्रभुर्वैश्वानरो महान्
ततः संशोषयामास पावकः सलिलं बहु क्षयाज्जलनिधेश्छिद्रम् अभवद्विस्तृतं नभः
आत्मतेजोद्भवाः पुण्या आपो ऽमृतरसोपमाः आकाशं छिद्रसम्भूतं वायुराकाशसंभवः
आभ्यां संघर्षणोद्भूतं पावकं वायुसंभवम् दृष्ट्वा प्रीतो महादेवो महाभूतविभावनः
दृष्ट्वा भूतानि भगवांल् लोकसृष्ट्यर्थमुत्तमम् ब्रह्मणो जन्मसहितं बहुरूपो व्यचिन्तयत्
चतुर्युगाभिसंख्याते सहस्रयुगपर्यये बहुजन्मा हि विश्वात्मा ब्रह्मणो हविरुच्यते
यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम् ज्ञानं वृष्टं तु विश्वार्थे योगिनां याति मुख्यताम्
तं योगवन्तं विज्ञाय सम्पूर्णैश्वर्यमुत्तमम् पदे ब्रह्मणि विश्वेशं न्ययोजयत योगवित्
ततस्तस्मिन्महातोये महीशो हरिरच्युतः जले क्रीडंश्च विधिवन् मोदते सर्वलोककृत्
पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्तदा सहस्रपर्णं विरजं भास्कराभं हिरण्मयम्
हुताशनज्वलितशिखोज्ज्वलत्प्रभम् उपस्थितं शरदमलार्कतेजसम् विराजते कमलमुदारवर्चसं महात्मनस्तनुरुहचारुदर्शनम्
अथ योगवतां श्रेष्ठम् असृजद्भूरितेजसम् स्रष्टारं सर्वलोकानां ब्रह्माणं सर्वतोमुखम्
यस्मिन्हिरण्मये पद्मे बहुयोजनविस्तृतम् सर्वतेजोगुणमयं पार्थिवैर्लक्षणैर्वृतम्
तच्च पद्मं पुराणज्ञाः पृथिवीरूपमुत्तमम् नारायणसमुद्भूतं प्रवदन्ति महर्षयः
या पद्मा सा रसा देवी पृथिवी परिचक्ष्यते ये पद्मसारगुरवस् तान्दिव्यान् पर्वतान्विदुः
हिमवन्तं च मेरुं च नीलं निषधमेव च कैलासं मुञ्जवन्तं च तथान्यं गन्धमादनम्
पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च उदयं पिञ्जरं चैव विन्ध्यवन्तं च पर्वतम्
एते देवगणानां च सिद्धानां च महात्मनाम् आश्रयाः पुण्यशीलानां सर्वकामफलप्रदाः
एतेषामन्तरे देशो जम्बूद्वीप इति स्मृतः जम्बूद्वीपस्य संस्थानं यज्ञिया यत्र वै क्रियाः
एभ्यो यत्स्रवते तोयं दिव्यामृतरसोपमम् दिव्यास्तीर्थशताधाराः सुरम्याः सरितः स्मृताः
स्मृतानि यानि पद्मस्य केसराणि समन्ततः असंख्येयाः पृथिव्यास्ते विश्वे वै धातुपर्वताः
यानि पद्मस्य पर्णानि भूरीणि तु नराधिप ते दुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः
यान्यधोभागपर्णानि ते निवासास्तु भागशः दैत्यानामुरगाणां च पतङ्गानां च पार्थिव
तेषां महार्णवो यत्र तद्रसेत्यभिसंज्ञितम् महापातककर्माणो मज्जन्ते यत्र मानवाः
पद्मस्यान्तरतो यत्तद् एकार्णवगता मही प्रोक्ताथ दिक्षु सर्वासु चत्वारः सलिलाकराः
एवं नारायणस्यार्थे मही पुष्करसंभवा प्रादुर्भावो ऽप्ययं तस्मान् नाम्ना पुष्करसंज्ञितः
एतस्मात्कारणात्तज्ज्ञैः पुराणैः परमर्षिभिः याज्ञिकैर्वेददृष्टान्तैर् यज्ञे पद्मविधिः स्मृतः
एवं भगवता तेन विश्वेषां धारणाविधिः पर्वतानां नदीनां च ह्रदानां चैव निर्मितः
विभुस्तथैवाप्रतिमप्रभावः प्रभाकराभो वरुणः सितद्युतिः शनैः स्वयंभूः शयनं सृजत्तदा जगन्मयं पद्मविधिं महार्णवे
विघ्नस्तपसि सम्भूतो मधुर्नाम महासुरः तेनैव च सहोद्भूतो ह्य् असुरो नाम कैटभः