मां पुत्रकामः प्रथमं पिता ते ऽङ्गिरसो मुनिः पूर्वमाराधयामास तपस्तीव्रं समाश्रितः
ततस्त्वां घोरतपसा प्रावृणोदमितौजसम् उक्तवानहमात्मस्थं महर्षिम् अमितौजसम्
कः समुत्सहते चान्यो यो न भूतात्मकात्मजः द्रष्टुमेकार्णवगतं क्रीडन्तं योगवर्त्मना
ततः प्रहृष्टवदनो विस्मयोत्फुल्ललोचनः मूर्ध्नि बद्धाञ्जलिपुटो मार्कण्डेयो महातपाः
नामगोत्रे ततः प्रोच्य दीर्घायुर्लोकपूजितः तस्मै भगवते भक्त्या नमस्कारमथाकरोत्
इच्छेयं तत्त्वतो मायाम् इमां ज्ञातुं तवानघ यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान्
किंसंज्ञश्चैव भगवांल् लोके विज्ञायसे प्रभो तर्कये त्वां महात्मानं को ह्यन्यः स्थातुमर्हति
अहं नारायणो ब्रह्मन् सर्वभूतविनाशनः अहं सहस्रशीर्षाख्यो यः पदैरभिसंज्ञितः
आदित्यवर्णः पुरुषो मखे ब्रह्ममयो मखः अहमग्निर्हव्यवाहो यादसां पतिरव्ययः
अहमिन्द्रपदे शक्रो वर्षाणां परिवत्सरः अहं योगी युगाख्यस्य युगान्तावर्त एव च
अहं सर्वाणि सत्त्वानि दैवतान्यखिलानि तु भुजंगानामहं शेषस् तार्क्ष्यो वै सर्वपक्षिणाम्
कृतान्तः सर्वभूतानां विश्वेषां कालसंज्ञितः अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम्
अहं चैव सरिद्दिव्या क्षीरोदश्च महार्णवः यत्तत्सत्यं च परमम् अहमेकः प्रजापतिः
अहं सांख्यमहं योगो ऽप्यहं तत्परमं पदम् अहमिज्या क्रिया चाहम् अहं विद्याधिपः स्मृतः
अहं ज्योतिरहं वायुर् अहं भूमिरहं नभः अहमापः समुद्राश्च नक्षत्राणि दिशो दश
अहं वर्षमहं सोमः पर्जन्यो ऽहमहं रविः क्षीरोदसागरे चाहं समुद्रे वडवामुखः
वह्निः संवर्तको भूत्वा पिबंस्तोयमयं हविः अहं पुराणः परमं तथैवाहं परायणम्
अहं भूतस्य भव्यस्य वर्तमानस्य संभवः यत्किंचित्पश्यसे विप्र यच्छृणोषि च किंचन
यल्लोके चानुभवसि तत्सर्वं मामनुस्मर विश्वं सृष्टं मया पूर्वं सृज्यं चाद्यापि पश्य माम्
युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिलं जगत् तदेतदखिलं सर्वं मार्कण्डेयावधारय
शुश्रूषुर्मम धर्मांश्च कुक्षौ चर सुखं मम मम ब्रह्मा शरीरस्थो देवैश्च ऋषिभिः सह
व्यक्तमव्यक्तयोगं माम् अवगच्छासुरद्विषम् अहमेकाक्षरो मन्त्रस् त्र्यक्षरश्चैव तारकः
परस्त्रिवर्गाद् ओंकारस् त्रिवर्गार्थनिदर्शनः एवमादिपुराणेशो वदन्नेव महामतिः
वक्त्रमाहृतवानाशु मार्कण्डेयं महामुनिम् ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः
स तस्मिन्सुखमेकान्ते शुश्रूषुर्हंसमव्ययम् यो ऽहमेव विविधतनुं परिश्रितो महार्णवे व्यपगतचन्द्रभास्करे शनैश्चरन्प्रभुरपि हंससंज्ञितो ऽसृजज्जगद्विहरति कालपर्यये
आपवः स विभुर्भूत्वा चारयामास वै तपः छादयित्वात्मनो देहं यादसां कुलसंभवम्
ततो महात्मातिबलो मतिं लोकस्य सर्जने महतां पञ्चभूतानां विश्वो विश्वमचिन्तयत्
तस्य चिन्तयमानस्य निर्वाते संस्थिते ऽर्णवे निराकाशे तोयमये सूक्ष्मे जगति गह्वरे
ईषत्संक्षोभयामास सो ऽर्णवं सलिलाश्रयः अनन्तरोर्मिभिः सूक्ष्मम् अथ छिद्रमभूत्पुरा
शब्दं प्रति तदोद्भूतो मारुतश्छिद्रसंभवः स लब्ध्वान्तरमक्षोभ्यो व्यवर्धत समीरणः