स मुनिर्विस्मयाविष्टः कौतूहलसमन्वितः बालमादित्यसंकाशं नाशक्नोदभिवीक्षितुम्
स चिन्तयंस्तथैकान्ते स्थित्वा सलिलसंनिधौ पूर्वदृष्टमिदं मेने शङ्कितो देवमायया
अगाधसलिले तस्मिन् मार्कण्डेयः सविस्मयः प्लवंस्तथार्तिम् अगमद् भयात्संत्रस्तलोचनः
स तस्मै भगवानाह स्वागतं बालयोगवान् बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः
मा भैर्वत्स न भेतव्यम् इहैवायाहि मे ऽन्तिकम् मार्कण्डेयो मुनिस्त्वाह बालं तं श्रमपीडितः
को मां नाम्ना कीर्तयति तपः परिभवन्मम दिव्यं वर्षसहस्राख्यं धर्षयन्निव मे वयः
न ह्येष वः समाचारो देवेष्वपि ममोचितः मां ब्रह्मापि हि देवेशो दीर्घायुरिति भाषते
कस्तमो घोरमासाद्य मामद्य त्यक्तजीवितः मार्कण्डेयेति मामुक्त्वा मृत्युमीक्षितुमर्हति
एवमाभाष्य तं क्रोधान् मार्कण्डेयो महामुनिः तथैव भगवान्भूयो बभाषे मधुसूदनः
अहं ते जनको वत्स हृषीकेशः पिता गुरुः आयुष्प्रदाता पौराणः किं मां त्वं नोपसर्पसि
मां पुत्रकामः प्रथमं पिता ते ऽङ्गिरसो मुनिः पूर्वमाराधयामास तपस्तीव्रं समाश्रितः
ततस्त्वां घोरतपसा प्रावृणोदमितौजसम् उक्तवानहमात्मस्थं महर्षिम् अमितौजसम्
कः समुत्सहते चान्यो यो न भूतात्मकात्मजः द्रष्टुमेकार्णवगतं क्रीडन्तं योगवर्त्मना
ततः प्रहृष्टवदनो विस्मयोत्फुल्ललोचनः मूर्ध्नि बद्धाञ्जलिपुटो मार्कण्डेयो महातपाः
नामगोत्रे ततः प्रोच्य दीर्घायुर्लोकपूजितः तस्मै भगवते भक्त्या नमस्कारमथाकरोत्
इच्छेयं तत्त्वतो मायाम् इमां ज्ञातुं तवानघ यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान्
किंसंज्ञश्चैव भगवांल् लोके विज्ञायसे प्रभो तर्कये त्वां महात्मानं को ह्यन्यः स्थातुमर्हति
अहं नारायणो ब्रह्मन् सर्वभूतविनाशनः अहं सहस्रशीर्षाख्यो यः पदैरभिसंज्ञितः
आदित्यवर्णः पुरुषो मखे ब्रह्ममयो मखः अहमग्निर्हव्यवाहो यादसां पतिरव्ययः
अहमिन्द्रपदे शक्रो वर्षाणां परिवत्सरः अहं योगी युगाख्यस्य युगान्तावर्त एव च
अहं सर्वाणि सत्त्वानि दैवतान्यखिलानि तु भुजंगानामहं शेषस् तार्क्ष्यो वै सर्वपक्षिणाम्
कृतान्तः सर्वभूतानां विश्वेषां कालसंज्ञितः अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम्
अहं चैव सरिद्दिव्या क्षीरोदश्च महार्णवः यत्तत्सत्यं च परमम् अहमेकः प्रजापतिः
अहं सांख्यमहं योगो ऽप्यहं तत्परमं पदम् अहमिज्या क्रिया चाहम् अहं विद्याधिपः स्मृतः
अहं ज्योतिरहं वायुर् अहं भूमिरहं नभः अहमापः समुद्राश्च नक्षत्राणि दिशो दश
अहं वर्षमहं सोमः पर्जन्यो ऽहमहं रविः क्षीरोदसागरे चाहं समुद्रे वडवामुखः
वह्निः संवर्तको भूत्वा पिबंस्तोयमयं हविः अहं पुराणः परमं तथैवाहं परायणम्
अहं भूतस्य भव्यस्य वर्तमानस्य संभवः यत्किंचित्पश्यसे विप्र यच्छृणोषि च किंचन
यल्लोके चानुभवसि तत्सर्वं मामनुस्मर विश्वं सृष्टं मया पूर्वं सृज्यं चाद्यापि पश्य माम्
युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिलं जगत् तदेतदखिलं सर्वं मार्कण्डेयावधारय