ददर्श चापि पुरुषं स्वपन्तं पर्वतोपमम् सलिले ऽर्धमथो मग्नं जीमूतमिव सागरे
ज्वलन्तमिव तेजोभिर् गोयुक्तमिव भास्करम् शर्वर्यां जाग्रतमिव भासन्तं स्वेन तेजसा
देवं द्रष्टुमिहायातः को भवानिति विस्मयात् तथैव स मुनिः कुक्षिं पुनरेव प्रवेशितः
सम्प्रविष्टः पुनः कुक्षिं मार्कण्डेयो ऽतिविस्मयः तथैव तु पुनर्भूयो विजानन्स्वप्नदर्शनम्
स तथैव यथापूर्वं यो धरामटते पुरा पुण्यतीर्थजलोपेतां विविधान्याश्रमाणि च
क्रतुभिर्यजमानाश्च समाप्तवरदक्षिणान् अपश्यद्देवकुक्षिस्थान् याजकाञ्छतशो द्विजान्
सद्वृत्तमास्थिताः सर्वे वर्णा ब्राह्मणपूर्वकाः चत्वारश्चाश्रमाः सम्यग् यथोद्दिष्टा मया तव
एवं वर्षशतं साग्रं मार्कण्डेयस्य धीमतः चरतः पृथिवीं सर्वां न कुक्ष्यन्तः समीक्षितः
ततः कदाचिदथ वै पुनर्वक्त्राद्विनिःसृतः सुप्तं न्यग्रोधशाखायां बालमेकं निरैक्षत
तथैवैकार्णवजले नीहारेणावृताम्बरे अव्यग्रः क्रीडते लोके सर्वभूतविवर्जिते
स मुनिर्विस्मयाविष्टः कौतूहलसमन्वितः बालमादित्यसंकाशं नाशक्नोदभिवीक्षितुम्
स चिन्तयंस्तथैकान्ते स्थित्वा सलिलसंनिधौ पूर्वदृष्टमिदं मेने शङ्कितो देवमायया
अगाधसलिले तस्मिन् मार्कण्डेयः सविस्मयः प्लवंस्तथार्तिम् अगमद् भयात्संत्रस्तलोचनः
स तस्मै भगवानाह स्वागतं बालयोगवान् बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः
मा भैर्वत्स न भेतव्यम् इहैवायाहि मे ऽन्तिकम् मार्कण्डेयो मुनिस्त्वाह बालं तं श्रमपीडितः
को मां नाम्ना कीर्तयति तपः परिभवन्मम दिव्यं वर्षसहस्राख्यं धर्षयन्निव मे वयः
न ह्येष वः समाचारो देवेष्वपि ममोचितः मां ब्रह्मापि हि देवेशो दीर्घायुरिति भाषते
कस्तमो घोरमासाद्य मामद्य त्यक्तजीवितः मार्कण्डेयेति मामुक्त्वा मृत्युमीक्षितुमर्हति
एवमाभाष्य तं क्रोधान् मार्कण्डेयो महामुनिः तथैव भगवान्भूयो बभाषे मधुसूदनः
अहं ते जनको वत्स हृषीकेशः पिता गुरुः आयुष्प्रदाता पौराणः किं मां त्वं नोपसर्पसि
मां पुत्रकामः प्रथमं पिता ते ऽङ्गिरसो मुनिः पूर्वमाराधयामास तपस्तीव्रं समाश्रितः
ततस्त्वां घोरतपसा प्रावृणोदमितौजसम् उक्तवानहमात्मस्थं महर्षिम् अमितौजसम्
कः समुत्सहते चान्यो यो न भूतात्मकात्मजः द्रष्टुमेकार्णवगतं क्रीडन्तं योगवर्त्मना
ततः प्रहृष्टवदनो विस्मयोत्फुल्ललोचनः मूर्ध्नि बद्धाञ्जलिपुटो मार्कण्डेयो महातपाः
नामगोत्रे ततः प्रोच्य दीर्घायुर्लोकपूजितः तस्मै भगवते भक्त्या नमस्कारमथाकरोत्
इच्छेयं तत्त्वतो मायाम् इमां ज्ञातुं तवानघ यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान्
किंसंज्ञश्चैव भगवांल् लोके विज्ञायसे प्रभो तर्कये त्वां महात्मानं को ह्यन्यः स्थातुमर्हति
अहं नारायणो ब्रह्मन् सर्वभूतविनाशनः अहं सहस्रशीर्षाख्यो यः पदैरभिसंज्ञितः
आदित्यवर्णः पुरुषो मखे ब्रह्ममयो मखः अहमग्निर्हव्यवाहो यादसां पतिरव्ययः
अहमिन्द्रपदे शक्रो वर्षाणां परिवत्सरः अहं योगी युगाख्यस्य युगान्तावर्त एव च