महासत्त्वान्यपि विभुं प्रविष्टान्यमितौजसम् नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृते
संशोषमात्मना कृत्वा समुद्रानपि देहिनः दग्ध्वा संप्लाव्य च तथा स्वपित्येकः सनातनः
पौराणं रूपमास्थाय स्वपित्यमितविक्रमः एकार्णवजलव्यापी योगी योगमुपाश्रितः
अनेकानि सहस्राणि युगान्येकार्णवाम्भसि न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति
कश्चैव पुरुषो नाम किंयोगः कश्च योगवान् असौ कियन्तं कालं च एकार्णवविधिं प्रभुः
करिष्यतीति भगवान् इति कश्चिन् न बुध्यते
न द्रष्टा नैव गमिता न ज्ञाता नैव पार्श्वगः तस्य न ज्ञायते किंचित् तमृते देवसत्तमम्
नभः क्षितिं पवनम् अपः प्रकाशकं प्रजापतिं भुवनधरं सुरेश्वरम् पितामहं श्रुतिनिलयं महामुनिं प्रशाम्य भूयः शयनं ह्यरोचयत्
एवमेकार्णवीभूते शेते लोकेमहाद्युतिः प्रच्छाद्य सलिलेनोर्वीं हंसो नारायणस्तदा
महतो रजसो मध्ये महार्णवसरःसु वै विरजस्कं महाबाहुम् अक्षयं ब्रह्म यद्विदुः
आत्मरूपप्रकाशेन तमसा संवृतः प्रभुः मनः सात्त्विकमाधाय यत्र तत्सत्यमासत
याथातथ्यं परं ज्ञानं भूतं तद्ब्रह्मणा पुरा रहस्यारण्यकोद्दिष्टं यच्चौपनिषदं स्मृतम्
पुरुषो यज्ञ इत्येतद् यत्परं परिकीर्तितम् यश्चान्यः पुरुषाख्यः स्यात् स एष पुरुषोत्तमः
ये च यज्ञकरा विप्रा ये चर्त्विज इति स्मृताः अस्मादेव पुरा भूता यज्ञेभ्यः श्रूयतां तथा
ब्रह्माणं प्रथमं वक्त्राद् उद्गातारं च सामगम् होतारमपि चाध्वर्युं बाहुभ्यामसृजत्प्रभुः
ब्रह्मणो ब्राह्मणाच्छंसि प्रस्तोतारं च सर्वशः तौ मित्रावरुणौ पृष्ठात् प्रतिप्रस्तारमेव च
उदरात्प्रतिहर्तारं पोतारं चैव पार्थिव अच्छावाकमथोरुभ्यां नेष्टारं चैव पार्थिव
पाणिभ्यामथ चाग्नीध्रं सुब्रह्मण्यं च जानुतः ग्रावस्तुतं तु पादाभ्याम् उन्नेतारं च याजुषम्
एवमेवैष भगवान् षोडशैव जगत्पतिः प्रवक्तॄन्सर्वयज्ञानाम् ऋत्विजो ऽसृजदुत्तमान्
तदेष वै वेदमयः पुरुषो यज्ञसंज्ञितः वेदाश्चैतन्मयाः सर्वे साङ्गोपनिषदक्रियाः
स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्पुरा श्रूयतां तद्यथा विप्रा मार्कण्डेयकुतूहलम्
गीर्णो भगवतस्तस्य कुक्षावेव महामुनिः बहुवर्षसहस्रायुस् तस्यैव वरतेजसा
अटंस्तीर्थप्रसङ्गेन पृथिवीं तीर्थगोचराम् आश्रमाणि च पुण्यानि देवतायतनानि च
देशान्राष्ट्राणि चित्राणि पुराणि विविधानि च जपहोमपरः शान्तस् तपो घोरं समास्थितः
मार्कण्डेयस्ततस्तस्य शनैर्वक्त्राद्विनिःसृतः स निष्क्रामन्न चात्मानं जानीते देवमायया
निष्क्रम्याप्यस्य वदनाद् एकार्णवमथो जगत् सर्वतस्तमसाच्छन्नं मार्कण्डेयो ऽन्ववैक्षत
तस्योत्पन्नं भयं तीव्रं संशयश्चात्मजीविते देवदर्शनसंहृष्टो विस्मयं परमं गतः
चिन्तयञ्जलमध्यस्थो मार्कण्डेयो विशङ्कितः किं नु स्यान्मम चिन्तेयं मोहः स्वप्नो ऽनुभूयते
व्यक्तमन्यतमो भावस् तेषां संभावितो मम न हीदृशं जगत्क्लेशम् अयुक्तं सत्यमर्हति
नष्टचन्द्रार्कपवने नष्टपर्वतभूतले कतमः स्यादयं लोक इति चिन्तामवस्थितः