जिह्वा रसश्च स्नेहश्च संश्रिताः सलिले गुणाः रूपं चक्षुर्विपाकश्च ज्योतिरेवाश्रिता गुणाः
स्पर्शः प्राणश्च चेष्टा च पवने संश्रिता गुणाः शब्दः श्रोत्रं च खान्येव गगने संश्रिता गुणाः
लोकमाया भगवता मुहूर्तेन विनाशिता मनो बुद्धिश्च सर्वेषां क्षेत्रज्ञश्चेति यः श्रुतः
तं वरेण्यं परमेष्ठी हृषीकेशमुपाश्रितः ततो भगवतस्तस्य रश्मिभिः परिवारितः
वायुनाक्रम्यमाणासु द्रुमशाखासु चाश्रितः तेषां संघर्षणोद्भूतः पावकः शतधा ज्वलन्
अदहच्च तदा सर्वं वृतः संवर्तको ऽनलः सपर्वतद्रुमान्गुल्मांल् लतावल्लीस्तृणानि च
भस्मीकृत्य ततः सर्वांल् लोकांल्लोकगुरुर्हरिः भूयो निर्वापयामास युगान्तेन च कर्मणा
सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाबलः दिव्यतोयेन हविषा तर्पयामास मेदिनीम्
ततः क्षीरनिकायेन स्वादुना परमाम्भसा शिवेन पुण्येन मही निर्वाणमगमत्परम्
तेन रोधेन संछन्ना पयसां वर्षतो धरा एकार्णवजलीभूता सर्वसत्त्वविवर्जिता
महासत्त्वान्यपि विभुं प्रविष्टान्यमितौजसम् नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृते
संशोषमात्मना कृत्वा समुद्रानपि देहिनः दग्ध्वा संप्लाव्य च तथा स्वपित्येकः सनातनः
पौराणं रूपमास्थाय स्वपित्यमितविक्रमः एकार्णवजलव्यापी योगी योगमुपाश्रितः
अनेकानि सहस्राणि युगान्येकार्णवाम्भसि न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति
कश्चैव पुरुषो नाम किंयोगः कश्च योगवान् असौ कियन्तं कालं च एकार्णवविधिं प्रभुः
करिष्यतीति भगवान् इति कश्चिन् न बुध्यते
न द्रष्टा नैव गमिता न ज्ञाता नैव पार्श्वगः तस्य न ज्ञायते किंचित् तमृते देवसत्तमम्
नभः क्षितिं पवनम् अपः प्रकाशकं प्रजापतिं भुवनधरं सुरेश्वरम् पितामहं श्रुतिनिलयं महामुनिं प्रशाम्य भूयः शयनं ह्यरोचयत्
एवमेकार्णवीभूते शेते लोकेमहाद्युतिः प्रच्छाद्य सलिलेनोर्वीं हंसो नारायणस्तदा
महतो रजसो मध्ये महार्णवसरःसु वै विरजस्कं महाबाहुम् अक्षयं ब्रह्म यद्विदुः
आत्मरूपप्रकाशेन तमसा संवृतः प्रभुः मनः सात्त्विकमाधाय यत्र तत्सत्यमासत
याथातथ्यं परं ज्ञानं भूतं तद्ब्रह्मणा पुरा रहस्यारण्यकोद्दिष्टं यच्चौपनिषदं स्मृतम्
पुरुषो यज्ञ इत्येतद् यत्परं परिकीर्तितम् यश्चान्यः पुरुषाख्यः स्यात् स एष पुरुषोत्तमः
ये च यज्ञकरा विप्रा ये चर्त्विज इति स्मृताः अस्मादेव पुरा भूता यज्ञेभ्यः श्रूयतां तथा
ब्रह्माणं प्रथमं वक्त्राद् उद्गातारं च सामगम् होतारमपि चाध्वर्युं बाहुभ्यामसृजत्प्रभुः
ब्रह्मणो ब्राह्मणाच्छंसि प्रस्तोतारं च सर्वशः तौ मित्रावरुणौ पृष्ठात् प्रतिप्रस्तारमेव च
उदरात्प्रतिहर्तारं पोतारं चैव पार्थिव अच्छावाकमथोरुभ्यां नेष्टारं चैव पार्थिव
पाणिभ्यामथ चाग्नीध्रं सुब्रह्मण्यं च जानुतः ग्रावस्तुतं तु पादाभ्याम् उन्नेतारं च याजुषम्
एवमेवैष भगवान् षोडशैव जगत्पतिः प्रवक्तॄन्सर्वयज्ञानाम् ऋत्विजो ऽसृजदुत्तमान्
तदेष वै वेदमयः पुरुषो यज्ञसंज्ञितः वेदाश्चैतन्मयाः सर्वे साङ्गोपनिषदक्रियाः