तत्र चार्थपराः सर्वे प्राणिनो रजसा हताः सर्वे नैष्कृतिकाः क्षुद्रा जायन्ते रविनन्दन
द्वाभ्यां धर्मः स्थितः पद्भ्याम् अधर्मस्त्रिभिरुत्थितः विपर्ययाच्छनैर्धर्मः क्षयमेति कलौ युगे
ब्राह्मण्यभावस्य ततस् तथौत्सुक्यं विशीर्यते व्रतोपवासास्त्यज्यन्ते द्वापरे युगपर्यये
तथा वर्षसहस्रं तु वर्षाणां द्वे शते अपि संध्यया सह संख्यातं क्रूरं कलियुगं स्मृतम्
यत्राधर्मश्चतुष्पादः स्याद्धर्मः पादविग्रहः कामिनस्तपसा हीना जायन्ते तत्र मानवाः
नैवातिसात्त्विकः कश्चिन् न साधुर्न च सत्यवाक् नास्तिका ब्रह्मभक्ता वा जायन्ते तत्र मानवाः
अहंकारगृहीताश्च प्रक्षीणस्नेहबन्धनाः विप्राः शूद्रसमाचाराः सन्ति सर्वे कलौ युगे
आश्रमाणां विपर्यासः कलौ सम्परिवर्तते वर्णानां चैव संदेहो युगान्ते रविनन्दन
विद्याद्द्वादशसाहस्रीं युगाख्यां पूर्वनिर्मिताम् एवं सहस्रपर्यन्तं तदहर्ब्राह्ममुच्यते
ततो ऽहनि गते तस्मिन् सर्वेषामेव जीविनाम् शरीरनिर्वृतिं दृष्ट्वा लोकसंहारबुद्धितः
देवतानां च सर्वासां ब्रह्मादीनां महीपते दैत्यानां दानवानां च यक्षराक्षसपक्षिणाम्
गन्धर्वाणामप्सरसां भुजंगानां च पार्थिव पर्वतानां नदीनां च पशूनां चैव सत्तम तिर्यग्योनिगतानां च सत्त्वानां कृमिणां तथा
महाभूतपतिः पञ्च हृत्वा भूतानि भूतकृत् जगत्संहरणार्थाय कुरुते वैशसं महत्
भूत्वा सूर्यश्चक्षुषी चाददानो भूत्वा वायुः प्राणिनां प्राणजालम् भूत्वा वह्निर्निर्दहन्सर्वलोकान् भूत्वा मेघो भूय उग्रो ऽप्यवर्षत्
भूत्वा नारायणो योगी सत्त्वमूर्तिर्विभावसुः गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान्
ततः पीत्वार्णवान् सर्वान् नदीः कूपांश्च सर्वशः पर्वतानां च सलिलं सर्वमादाय रश्मिभिः
भित्त्वा गभस्तिभिश्चैव महीं गत्वा रसातलात् पातालजलमादाय पिबते रसमुत्तमम्
मूत्रासृक्क्लेदम् अन्यच्च यदस्ति प्राणिषु ध्रुवम् तत्सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः
वायुश्च बलवान्भूत्वा विधुन्वानो ऽखिलं जगत् प्राणापानसमानाद्यान् वायून् आकर्षते हरिः
ततो देवगणाः सर्वे भूतान्येव च यानि तु गन्धो घ्राणं शरीरं च पृथिवीं संश्रिता गुणाः
जिह्वा रसश्च स्नेहश्च संश्रिताः सलिले गुणाः रूपं चक्षुर्विपाकश्च ज्योतिरेवाश्रिता गुणाः
स्पर्शः प्राणश्च चेष्टा च पवने संश्रिता गुणाः शब्दः श्रोत्रं च खान्येव गगने संश्रिता गुणाः
लोकमाया भगवता मुहूर्तेन विनाशिता मनो बुद्धिश्च सर्वेषां क्षेत्रज्ञश्चेति यः श्रुतः
तं वरेण्यं परमेष्ठी हृषीकेशमुपाश्रितः ततो भगवतस्तस्य रश्मिभिः परिवारितः
वायुनाक्रम्यमाणासु द्रुमशाखासु चाश्रितः तेषां संघर्षणोद्भूतः पावकः शतधा ज्वलन्
अदहच्च तदा सर्वं वृतः संवर्तको ऽनलः सपर्वतद्रुमान्गुल्मांल् लतावल्लीस्तृणानि च
भस्मीकृत्य ततः सर्वांल् लोकांल्लोकगुरुर्हरिः भूयो निर्वापयामास युगान्तेन च कर्मणा
सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाबलः दिव्यतोयेन हविषा तर्पयामास मेदिनीम्
ततः क्षीरनिकायेन स्वादुना परमाम्भसा शिवेन पुण्येन मही निर्वाणमगमत्परम्
तेन रोधेन संछन्ना पयसां वर्षतो धरा एकार्णवजलीभूता सर्वसत्त्वविवर्जिता