के प्रजापतयस्तावद् आसन्पूर्वं महामुने कथं निर्मितवांश्चैव चित्रं लोकं सनातनम्
कथमेकार्णवे शून्ये नष्टस्थावरजङ्गमे दग्धे देवासुरनरे प्रनष्टोरगराक्षसे
नष्टानिलानले लोके नष्टाकाशमहीतले केवलं गह्वरीभूते महाभूतविपर्यये
विभुर्महाभूतपतिर् महातेजा महाकृतिः आस्ते सुरवरश्रेष्ठो विधिमास्थाय योगवित्
शृणुयां परया भक्त्या ब्रह्मन्नेतदशेषतः वक्तुमर्हसि धर्मिष्ठ यशो नारायणात्मकम्
श्रद्धया चोपविष्टानां भगवन्वक्तुमर्हसि
नारायणस्य यशसः श्रवणे या तव स्पृहा तद्वंश्यान्वयभूतस्य न्याय्यं रविकुलर्षभ
शृणुष्वादिपुराणेषु वेदेभ्यश्च यथा श्रुतम् ब्राह्मणानां च वदतां श्रुत्वा वै सुमहात्मनाम्
यथा च तपसा दृष्ट्वा बृहस्पतिसमद्युतिः पराशरसुतः श्रीमान् गुरुर्द्वैपायनो ऽब्रवीत्
तत्ते ऽहं कथयिष्यामि यथाशक्ति यथाश्रुति यद्विज्ञातुं मया शक्यम् ऋषिमात्रेण सत्तमाः
कः समुत्सहते ज्ञातुं परं नारायणात्मकम् विश्वायनश्च यद्ब्रह्मा न वेदयति तत्त्वतः
तत्कर्म विश्ववेदानां तद्रहस्यं महर्षीणाम् तमीशं सर्वयज्ञानां तत्तत्त्वं सर्वदर्शिनाम् तदध्यात्मविदां चिन्त्यं नरकं च विकर्मिणाम्
अधिदैवं च यद्दैवम् अधियज्ञं सुसंज्ञितम् तद्भूतमधिभूतं च तत्परं परमर्षीणाम्
स यज्ञो वेदनिर्दिष्टस् तत्तपः कवयो विदुः यः कर्ता कारको बुद्धिर् मनः क्षेत्रज्ञ एव च
प्रणवः पुरुषः शास्ता एकश्चेति विभाव्यते प्राणः पञ्चविधश्चैव ध्रुव अक्षर एव च
कालः पाकश्च पक्ता च द्रष्टा स्वाध्याय एव च उच्यते विविधैर्देवैः स एवायं न तत्परम्
स एव भगवान्सर्वं करोति विकरोति च सो ऽस्मान्कारयते सर्वान् सो ऽत्येति व्याकुलीकृतान्
यजामहे तमेवाद्यं तमेवेच्छाम निर्वृताः यो वक्ता यच्च वक्तव्यं यच्चाहं तद्ब्रवीमि वः
श्रूयते यच्च वै श्राव्यं यच्चान्यत्परिजल्प्यते याः कथाश्चैव वर्तन्ते श्रुतयो वाथ तत्पराः विश्वं विश्वपतिर्यश्च स तु नारायणः स्मृतः
यत्सत्यं यदमृतमक्षरं परं यद् यद्भूतं परममिदं च यद्भविष्यत् यत्किंचिच् चरमचरं यदस्ति चान्यत् तत्सर्वं पुरुषवरः प्रभुः पुराणः
चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् तस्य तावच्छती संध्या द्विगुणा रविनन्दन
यत्र धर्मश्चतुष्पादस् त्व् अधर्मः पादविग्रहः स्वधर्मनिरताः सन्तो जायन्ते यत्र मानवाः
विप्राः स्थिता धर्मपरा राजवृत्तौ स्थिता नृपाः कृष्यामभिरता वैश्याः शूद्राः शुश्रूषवः स्थिताः
तदा सत्यं च शौचं च धर्मश्चैव विवर्धते सद्भिराचरितं कर्म क्रियते ख्यायते च वै
एतत्कार्तयुगं वृत्तं सर्वेषामपि पार्थिव प्राणिनां धर्मसङ्गानाम् अपि वै नीचजन्मनाम्
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते तस्य तावच्छती संध्या द्विगुणा परिकीर्त्यते
द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः यत्र सत्यं च सत्त्वं च त्रेताधर्मो विधीयते
त्रेतायां विकृतिं यान्ति वर्णास्त्वेते न संशयः चातुर्वर्ण्यस्य वैकृत्याद् यान्ति दौर्बल्यमाश्रमाः
एषा त्रेतायुगगतिर् विचित्रा देवनिर्मिता द्वापरस्य तु या चेष्टा तामपि श्रोतुमर्हसि
द्वापरं द्वे सहस्रे तु वर्षाणां रविनन्दन तस्य तावच्छती संध्या द्विगुणा युगमुच्यते