ततः प्रमुदिता देवा ऋषयश्च तपोधनाः तुष्टुवुर्नामभिर्दिव्यैर् आदिदेवं सनातनम्
यत्त्वया विहितं देव नारसिंहमिदं वपुः एतदेवार्चयिष्यन्ति परावरविदो जनाः
भवान्ब्रह्मा च रुद्रश्च महेन्द्रो देवसत्तमः भवान्कर्ता विकर्ता च लोकानां प्रभवो ऽव्ययः
परां च सिद्धिं च परं च देवं परं च मन्त्रं परमं हविश्च परं च धर्मं परमं च विश्वं त्वामाहुरग्र्यं पुरुषं पुराणम्
परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम् परं रहस्यं परमां गतिं च त्वामाहुरग्र्यं पुरुषं पुराणम्
एवं परस्यापि परं पदं यत् परं परस्यापि परं च देवम् परं परस्यापि परं च भूतं त्वामाहुरग्र्यं पुरुषं पुराणम्
परं परस्यापि परं रहस्यं परं परस्यापि परं महत्त्वम् परं परस्यापि परं महद्यत् त्वामाहुरग्र्यं पुरुषं पुराणम्
परं परस्यापि परं निधानं परं परस्यापि परं पवित्रम् परं परस्यापि परं च दान्तं त्वामाहुरग्र्यं पुरुषं पुराणम्
एवमुक्त्वा तु भगवान् सर्वलोकपितामहः स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः
ततो नदत्सु तूर्येषु नृत्यन्तीष्वप्सरःसु च क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः
नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमत् पौराणं रूपमास्थाय प्रययौ गरुडध्वजः
अष्टचक्रेण यानेन भूतयुतेन भास्वता अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः
कथितं नरसिंहस्य माहात्म्यं विस्तरेण च पुनस्तस्यैव माहात्म्यम् अन्यद्विस्तरतो वद
पद्मरूपमभूदेतत् कथं हेममयं जगत् कथं च वैष्णवी सृष्टिः पद्ममध्ये ऽभवत्पुरा
श्रुत्वा च नरसिंहस्य माहात्म्यं रविनन्दनः विस्मयोत्फुल्लनयनः पुनः पप्रच्छ केशवम्
कथं पाद्मे महाकल्पे तव पद्ममयं जगत् जलार्णवगतस्येह नाभौ जातं जनार्दन
प्रभावात्पद्मनाभस्य स्वपतः सागराम्भसि पुष्करे च कथं भूता देवाः सर्षिगणाः पुरा
एतदाख्याहि निखिलं योगं योगविदां पते शृण्वतस्तस्य मे कीर्तिं न तृप्तिरुपजायते
कियता चैव कालेन शेते वै पुरुषोत्तमः कियन्तं वा स्वपिति च को ऽस्य कालस्य संभवः
कियता वाथ कालेन ह्य् उत्तिष्ठति महायशाः कथं चोत्थाय भगवान् सृजते निखिलं जगत्
के प्रजापतयस्तावद् आसन्पूर्वं महामुने कथं निर्मितवांश्चैव चित्रं लोकं सनातनम्
कथमेकार्णवे शून्ये नष्टस्थावरजङ्गमे दग्धे देवासुरनरे प्रनष्टोरगराक्षसे
नष्टानिलानले लोके नष्टाकाशमहीतले केवलं गह्वरीभूते महाभूतविपर्यये
विभुर्महाभूतपतिर् महातेजा महाकृतिः आस्ते सुरवरश्रेष्ठो विधिमास्थाय योगवित्
शृणुयां परया भक्त्या ब्रह्मन्नेतदशेषतः वक्तुमर्हसि धर्मिष्ठ यशो नारायणात्मकम्
श्रद्धया चोपविष्टानां भगवन्वक्तुमर्हसि
नारायणस्य यशसः श्रवणे या तव स्पृहा तद्वंश्यान्वयभूतस्य न्याय्यं रविकुलर्षभ
शृणुष्वादिपुराणेषु वेदेभ्यश्च यथा श्रुतम् ब्राह्मणानां च वदतां श्रुत्वा वै सुमहात्मनाम्
यथा च तपसा दृष्ट्वा बृहस्पतिसमद्युतिः पराशरसुतः श्रीमान् गुरुर्द्वैपायनो ऽब्रवीत्
तत्ते ऽहं कथयिष्यामि यथाशक्ति यथाश्रुति यद्विज्ञातुं मया शक्यम् ऋषिमात्रेण सत्तमाः