कम्पितं मानसं चैव हंसकारण्डवाकुलम् त्रिशृङ्गपर्वतश्चैव कुमारी च सरिद्वरा
तुषारचयसंछन्नो मन्दरश्चापि पर्वतः उशीरबिन्दुश्च गिरिश् चन्द्रप्रस्थस्तथाद्रिराट्
प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः देवाभ्रपर्वतश्चैव तथा वै रेणुको गिरिः
क्रौञ्चः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः एते चान्ये च गिरयो देशा जनपदास्तथा
नद्यः ससागराः सर्वाः सो ऽकम्पयत दानवः कपिलश्च महीपुत्रो व्याघ्रवांश्चैव कम्पितः
खेचराश्च सतीपुत्राः पातालतलवासिनः गणस्तथा परो रौद्रो मेघनामाङ्कुशायुधः
ऊर्ध्वगो भीमवेगश्च सर्व एवाभिकम्पिताः गदी शूली करालश्च हिरण्यकशिपुस्तदा
जीमूतघनसंकाशो जीमूतघननिःस्वनः जीमूतघननिर्घोषो जीमूत इव वेगवान्
देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत् समुत्पत्य ततस्तीक्ष्णैर् मृगेन्द्रेण महानखैः तदोंकारसहायेन विदार्य निहतो युधि
मही च कालश्च शशी नभश्च ग्रहाश्च सूर्यश्च दिशश्च सर्वाः नद्यश्च शैलाश्च महार्णवाश्च गताः प्रसादं दितिपुत्रनाशात्
ततः प्रमुदिता देवा ऋषयश्च तपोधनाः तुष्टुवुर्नामभिर्दिव्यैर् आदिदेवं सनातनम्
यत्त्वया विहितं देव नारसिंहमिदं वपुः एतदेवार्चयिष्यन्ति परावरविदो जनाः
भवान्ब्रह्मा च रुद्रश्च महेन्द्रो देवसत्तमः भवान्कर्ता विकर्ता च लोकानां प्रभवो ऽव्ययः
परां च सिद्धिं च परं च देवं परं च मन्त्रं परमं हविश्च परं च धर्मं परमं च विश्वं त्वामाहुरग्र्यं पुरुषं पुराणम्
परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम् परं रहस्यं परमां गतिं च त्वामाहुरग्र्यं पुरुषं पुराणम्
एवं परस्यापि परं पदं यत् परं परस्यापि परं च देवम् परं परस्यापि परं च भूतं त्वामाहुरग्र्यं पुरुषं पुराणम्
परं परस्यापि परं रहस्यं परं परस्यापि परं महत्त्वम् परं परस्यापि परं महद्यत् त्वामाहुरग्र्यं पुरुषं पुराणम्
परं परस्यापि परं निधानं परं परस्यापि परं पवित्रम् परं परस्यापि परं च दान्तं त्वामाहुरग्र्यं पुरुषं पुराणम्
एवमुक्त्वा तु भगवान् सर्वलोकपितामहः स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः
ततो नदत्सु तूर्येषु नृत्यन्तीष्वप्सरःसु च क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः
नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमत् पौराणं रूपमास्थाय प्रययौ गरुडध्वजः
अष्टचक्रेण यानेन भूतयुतेन भास्वता अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः
कथितं नरसिंहस्य माहात्म्यं विस्तरेण च पुनस्तस्यैव माहात्म्यम् अन्यद्विस्तरतो वद
पद्मरूपमभूदेतत् कथं हेममयं जगत् कथं च वैष्णवी सृष्टिः पद्ममध्ये ऽभवत्पुरा
श्रुत्वा च नरसिंहस्य माहात्म्यं रविनन्दनः विस्मयोत्फुल्लनयनः पुनः पप्रच्छ केशवम्
कथं पाद्मे महाकल्पे तव पद्ममयं जगत् जलार्णवगतस्येह नाभौ जातं जनार्दन
प्रभावात्पद्मनाभस्य स्वपतः सागराम्भसि पुष्करे च कथं भूता देवाः सर्षिगणाः पुरा
एतदाख्याहि निखिलं योगं योगविदां पते शृण्वतस्तस्य मे कीर्तिं न तृप्तिरुपजायते
कियता चैव कालेन शेते वै पुरुषोत्तमः कियन्तं वा स्वपिति च को ऽस्य कालस्य संभवः
कियता वाथ कालेन ह्य् उत्तिष्ठति महायशाः कथं चोत्थाय भगवान् सृजते निखिलं जगत्