चतुर्थस्य पुनः कार्यं न कदाचिदतो भवेत् ततः पितृत्वमापन्नः सर्वतस्तुष्टिमागतः
अग्निष्वात्तादिमध्यत्वं प्राप्नोत्यमृतमुत्तमम् सपिण्डीकरणादूर्ध्वं तस्मै तस्मान्न दीयते
पितृष्वेव तु दातव्यं तत्पिण्डो येषु संस्थितः ततः प्रभृति संक्रान्ताव् उपरागादिपर्वसु
त्रिपिण्डमाचरेच्छ्राद्धम् एकोद्दिष्टे मृते ऽहनि एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत्
सदैव पितृहा स स्यान् मातृभ्रातृविनाशकः मृताहे पार्वणं कुर्वन् नधो ऽधो याति मानवः
संपृक्तेष्वाकुलीभावः प्रेतेषु तु गतो भवेत् प्रतिसंवत्सरं तस्माद् एकोद्दिष्टं समाचरेत्
यावदब्दं तु यो दद्याद् उदकुम्भं विमत्सरः प्रेतायान्नसमायुक्तं सो ऽश्वमेधफलं लभेत्
आमश्राद्धं यदा कुर्याद् विधिज्ञः श्राद्धदस्तदा तेनाग्नौकरणं कुर्यात् पिण्डांस्तेनैव निर्वपेत्
त्रिभिः सपिण्डीकरणे अशेषत्रितये पिता यदा प्राप्स्यति कालेन तदा मुच्येत बन्धनात्
मुक्तो ऽपि लेपभागित्वं प्राप्नोति कुशमार्जनात् लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्
कथं कव्यानि देयानि हव्यानि च जनैरिह गच्छन्ति पितृलोकस्थान् प्रापकः को ऽत्र गद्यते
यदि मर्त्यो द्विजो भुङ्क्ते हूयते यदि वानले शुभाशुभात्मकैः प्रेतैर् दत्तं तद्भुज्यते कथम्
वसून्वदन्ति च पितॄन् रुद्रांश्चैव पितामहान् प्रपितामहांस्तथादित्यान् इत्येवं वैदिकी श्रुतिः
नाम गोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः श्राद्धस्य मन्त्राः श्रद्धा च उपयोज्यातिभक्तितः
अग्निष्वात्तादयस्तेषाम् आधिपत्ये व्यवस्थिताः नामगोत्रकालदेशा भवान्तरगतानपि
प्राणिनः प्रीणयन्त्येते तदाहारत्वमागतान् देवो यदि पिता जातः शुभकर्मानुयोगतः
तस्यान्नममृतं भूत्वा दिव्यत्वे ऽप्यनुगच्छति दैत्यत्वे भोगरूपेण पशुत्वे च तृणं भवेत्
श्राद्धान्नं वायुरूपेण सर्पत्वे ऽप्युपतिष्ठति पानं भवति यक्षत्वे राक्षसत्वे तथामिषम्
दनुजत्वे तथा माया प्रेतत्वे रुधिरोदकम् मनुष्यत्वे ऽन्नपानानि नानाभोगरसं भवेत्
रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजनशक्तिता दानशक्तिः सविभवा रूपमारोग्यमेव च
श्रद्धा पुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः आयुः पुत्रान् धनं विद्यां स्वर्गं मोक्षं सुखानि च
राज्यं चैव प्रयच्छन्ति प्रीताः पितृगणा नृणाम् श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः पञ्चभिर्जन्मसम्बन्धैर् गता विष्णोः परं पदम्
कथं कौशिकदायादाः प्राप्तास्ते योगमुत्तमम् पञ्चभिर्जन्मसम्बन्धैः कथं कर्मक्षयो भवेत्
कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः नामतः कर्मतस्तस्य सुतान्सप्त निबोधत
श्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च वाग्दुष्टः पितृवर्ती च गर्गशिष्यास्तदाभवन्
पितर्युपरते तेषाम् अभूद्दुर्भिक्षमुल्बणम् अनावृष्टिश्च महती सर्वलोकभयंकरी
गर्गादेशाद्वने दोग्ध्रीं रक्षन्तस्ते तपोधनाः खादामः कपिलामेतां वयं क्षुत्पीडिता भृशम्
इति चिन्तयतां पापं लघुः प्राह तदानुजः यद्यवश्यमियं वध्या श्राद्धरूपेण योज्यताम्
श्राद्धे नियोज्यमानेयं पापात्त्रास्यति नो ध्रुवम् एव कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः
चक्रे समाहितः श्राद्धम् उपयुज्य च तां पुनः द्वौ दैवे भ्रातरौ कृत्वा पित्रे त्रीनप्यनुक्रमात्