वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ एलामुखः कालियश्च महापद्मश्च वीर्यवान्
सहस्रशीर्षा नागो वै हेमतालध्वजः प्रभुः शेषो ऽनन्तो महाभागो दुष्प्रकम्प्यः प्रकम्पितः
दीप्तान्यन्तर्जलस्थानि पृथिवीधरणानि च तदा क्रुद्धेन महता कम्पितानि समन्ततः
नागास्तेजोधराश्चापि पातालतलचारिणः हिरण्यकशिपुर्दैत्यस् तदा संस्पृष्टवान्महीम्
संदष्टौष्ठपुटः क्रोधाद् वाराह इव पूर्वजः नदी भागीरथी चैव सरयूः कौशिकी तथा
यमुना त्वथ कावेरी कृष्णवेणा च निम्नगा सुवेणा च महाभागा नदी गोदावरी तथा
चर्मण्वती च सिन्धुश्च तथा नदनदीपतिः कमलप्रभवश्चैव शोणो मणिनिभोदकः
नर्मदा शुभतोया च तथा वेत्रवती नदी गोमती गोकुलाकीर्णा तथा पूर्वसरस्वती
मही कालमही चैव तमसा पुष्पवाहिनी जम्बूद्वीपं रत्नवटं सर्वरत्नोपशोभितम्
सुवर्णप्रकटं चैव सुवर्णाकरमण्डितम् महानदं च लौहित्यं शैलकाननशोभितम्
पत्तनं कोशकरणम् ऋषिवीरजनाकरम् मागधाश्च महाग्रामा मुण्डाः शुङ्गास्तथैव च
सुह्मा मल्ला विदेहाश्च मालवाः काशिकोसलाः भवनं वैनतेयस्य दैत्येन्द्रेणाभिकम्पितम्
कैलासशिखराकारं यत्कृतं विश्वकर्मणा रक्ततोयो महाभीमो लौहित्यो नाम सागरः
उदयश्च महाशैल उच्छ्रितः शतयोजनम् सुवर्णवेदिकः श्रीमान् मेघपङ्क्तिनिषेवितः
भ्राजमानो ऽर्कसदृशैर् जातरूपमयैर्द्रुमैः शालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः
अयोमुखश्च विख्यातः पर्वतो धातुमण्डितः तमालवनगन्धश्च पर्वतो मलयः शुभः
सुराष्ट्राश्च सबाह्लीकाः शूराभीरास्तथैव च भोजाः पाण्ड्याश्च वङ्गाश्च कलिङ्गास्ताम्रलिप्तकाः
तथैवौण्ड्राश्च पौण्ड्राश्च वामचूडाः सकेरलाः क्षोभितास्तेन दैत्येन सदेवाश्चाप्सरोगणाः
अगस्त्यभवनं चैव यदगम्यं कृतं पुरा सिद्धचारणसंघश्च विप्रकीर्णं मनोहरम्
विचित्रनानाविहगं सुपुष्पितमहाद्रुमम् जातरूपमयैः शृङ्गैर् अप्सरोगणनादितम्
गिरिपुष्पितकश्चैव लक्ष्मीवान्प्रियदर्शनः उत्थितः सागरं भित्त्वा विश्रामश्चन्द्रसूर्ययोः रराज सुमहाशृङ्गैर् गगनं विलिखन्निव
चन्द्रसूर्यांशुसंकाशैः सागराम्बुसमावृतैः विद्युत्वान्सर्वतः श्रीमान् आयतः शतयोजनम्
विद्युतां यत्र संपाता निपात्यन्ते नगोत्तमे ऋषभः पर्वतश्चैव श्रीमान्वृषभसंज्ञितः
कुञ्जरः पर्वतः श्रीमान् यत्रागस्त्यगृहं शुभम् विशालाक्षश्च दुर्धर्षः सर्पाणामालयः पुरी
तथा भोगवती चापि दैत्येन्द्रेणाभिकम्पिता महासेनो गिरिश्चैव पारियात्रश्च पर्वतः
चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः प्राग्ज्यौतिषपुरं चापि जातरूपमयं शुभम्
यस्मिन्वसति दुष्टात्मा नरको नाम दानवः मेघश्च पर्वतश्रेष्ठो मेघगम्भीरनिःस्वनः
षष्टिस्तत्र सहस्राणि पर्वतानां द्विजोत्तमाः तरुणादित्यसंकाशो मेरुस्तत्र महागिरिः
यक्षराक्षसगन्धर्वैर् नित्यं सेवितकंदरः हेमगर्भो महाशैलस् तथा हेमसखो गिरिः
कैलासश्चैव शैलेन्द्रो दानवेन्द्रेण कम्पितः हेमपुष्करसंछन्नं तेन वैखानसं सरः