विवर्णतां च भगवान् गतो दिवि दिवाकरः कृष्णं कबन्धं च तथा लक्ष्यते सुमहद्दिवि
अमुञ्चच्चार्चिषां वृन्दं भूमिवृत्तिर् विभावसुः गगनस्थश्च भगवान् अभीक्ष्णं परिदृश्यते
सप्त धूम्रनिभा घोराः सूर्या दिवि समुत्थिताः सोमस्य गगनस्थस्य ग्रहास्तिष्ठन्ति शृङ्गगाः
वामे तु दक्षिणे चैव स्थितौ शुक्रबृहस्पती शनैश्चरो लोहिताङ्गो ज्वलनाङ्गसमद्युतिः
समं समधिरोहन्तः सर्वे ते गगनेचराः शृङ्गाणि शनकैर्घोरा युगान्तावर्तिनो ग्रहाः
चन्द्रमाश्च सनक्षत्रैर् ग्रहैः सह तमोनुदः चराचरविनाशाय रोहिणीं नाभ्यनन्दत
गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते उल्काः प्रज्वलिताश्चन्द्रे विचरन्ति यथासुखम्
देवानामपि यो देवः सो ऽप्यवर्षत शोणितम् अपतन्गगनादुल्का विद्युद्रूपा महास्वनाः
अकाले च द्रुमाः सर्वे पुष्पन्ति च फलन्ति च लताश्च सफलाः सर्वा ये चाहुर्दैत्यनाशनम्
फलैः फलान्यजायन्त पुष्पैः पुष्पं तथैव च उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च
विक्रोशन्ति च गम्भीरा धूमयन्ति ज्वलन्ति च प्रतिमाः सर्वदेवानां वेदयन्ति महद्भयम्
आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः चक्रुः सुभैरवं तत्र महायुद्धमुपस्थितम्
नद्यश्च प्रतिकूलानि वहन्ति कलुषोदकाः न प्रकाशन्ति च दिशो रक्तरेणुसमाकुलाः
वानस्पत्यो न पूज्यन्ते पूजनार्हाः कथंचन वायुवेगेन हन्यन्ते भज्यन्ते प्रणमन्ति च
यदा च सर्वभूतानां छाया न परिवर्तते अपराह्णगते सूर्ये लोकानां युगसंक्षये
तदा हिरण्यकशिपोर् दैत्यस्योपरि वेश्मनः भाण्डागारायुधागारे निविष्टमभवन्मधु
असुराणां विनाशाय सुराणां विजयाय च दृश्यन्ते विविधोत्पाता घोरा घोरनिदर्शनाः
एते चान्ये च बहवो घोरोत्पाताः समुत्थिताः दैत्येन्द्रस्य विनाशाय दृश्यन्ते कालनिर्मिताः
मेदिन्यां कम्पमानायां दैत्येन्द्रेण महात्मना महीधरा नागगणा निपेतुरमितौजसः
विषज्वालाकुलैर्वक्त्रैर् विमुञ्चन्तो हुताशनम् चतुःशीर्षाः पञ्चशीर्षाः सप्तशीर्षाश्च पन्नगाः
वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ एलामुखः कालियश्च महापद्मश्च वीर्यवान्
सहस्रशीर्षा नागो वै हेमतालध्वजः प्रभुः शेषो ऽनन्तो महाभागो दुष्प्रकम्प्यः प्रकम्पितः
दीप्तान्यन्तर्जलस्थानि पृथिवीधरणानि च तदा क्रुद्धेन महता कम्पितानि समन्ततः
नागास्तेजोधराश्चापि पातालतलचारिणः हिरण्यकशिपुर्दैत्यस् तदा संस्पृष्टवान्महीम्
संदष्टौष्ठपुटः क्रोधाद् वाराह इव पूर्वजः नदी भागीरथी चैव सरयूः कौशिकी तथा
यमुना त्वथ कावेरी कृष्णवेणा च निम्नगा सुवेणा च महाभागा नदी गोदावरी तथा
चर्मण्वती च सिन्धुश्च तथा नदनदीपतिः कमलप्रभवश्चैव शोणो मणिनिभोदकः
नर्मदा शुभतोया च तथा वेत्रवती नदी गोमती गोकुलाकीर्णा तथा पूर्वसरस्वती
मही कालमही चैव तमसा पुष्पवाहिनी जम्बूद्वीपं रत्नवटं सर्वरत्नोपशोभितम्
सुवर्णप्रकटं चैव सुवर्णाकरमण्डितम् महानदं च लौहित्यं शैलकाननशोभितम्