एवं भूयो ऽपरान्घोरान् असृजन्दानवेश्वराः मृगेन्द्रस्योपरि क्रुद्धा निःश्वसन्त इवोरगाः
ते दानवशरा घोरा दानवेन्द्रसमीरिताः विलयं जग्मुराकाशे खद्योता इव पर्वते
ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः मृगेन्द्रायासृजन्नाशु ज्वलितानि समन्ततः
तैरासीद्गगनं चक्रैः संपतद्भिरितस्ततः युगान्ते संप्रकाशद्भिश् चन्द्रादित्यग्रहैरिव
तानि सर्वाणि चक्राणि मृगेन्द्रेण महात्मना ग्रस्तान्युदीर्णानि तदा पावकार्चिःसमानि वै
तानि चक्राणि वदने विशमानानि भान्ति वै मेघोदरदरीष्वेव चन्द्रसूर्यग्रहा इव
हिरण्यकशिपुर्दैत्यो भूयः प्रासृजदूर्जिताम् शक्तिं प्रज्वलितां घोरां धौतशस्त्रतडित्प्रभाम्
तामापतन्तीं सम्प्रेक्ष्य मृगेन्द्रः शक्तिमुज्ज्वलाम् हुंकारेणैव रौद्रेण बभञ्ज भगवांस्तदा
रराज भग्ना सा शक्तिर् मृगेन्द्रेण महीतले सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता
नाराचपङ्क्तिः सिंहस्य प्राप्ता रेजे ऽविदूरतः नीलोत्पलपलाशानां मालेवोज्ज्वलदर्शना
स गर्जित्वा यथान्यायं विक्रम्य च यथासुखम् तत्सैन्यम् उत्सारितवांस् तृणाग्राणीव मारुतः
ततो ऽश्मवर्षं दैत्येन्द्रा व्यमृजन्त नभोगताः नगमात्रैः शिलाखण्डैर् गिरिशृङ्गैर्महाप्रभैः
तदश्मवर्षं सिंहस्य महन्मूर्धनि पातितम् दिशो दश विकीर्णा वै खद्योतप्रकरा इव
तदाश्मौघैर् दैत्यगणाः पुनः सिंहमरिंदमम् छादयांचक्रिरे मेघा धाराभिरिव पर्वतम्
न च तं चालयामासुर् दैत्यौघा देवसत्तमम् भीमवेगो ऽचलश्रेष्ठं समुद्र इव मन्दरम्
ततो ऽश्मवर्षे विहते जलवर्षमनन्तरम् धाराभिरक्षमात्राभिः प्रादुरासीत्समन्ततः
नभसः प्रच्युता धारास् तिग्मवेगाः समन्ततः आवृत्य सर्वतो व्योम दिशश्चोपदिशस्तथा
धारा दिवि च सर्वत्र वसुधायां च सर्वशः न स्पृशन्ति च ता देवं निपतन्त्यो ऽनिशं भुवि
बाह्यतो ववृषुर्वर्षं नोपरिष्टाच्च ववृषुः मृगेन्द्रप्रतिरूपस्य स्थितस्य युधि मायया
हते ऽश्मवर्षे तुमुले जलवर्षे च शोषिते सो ऽसृजद्दानवो मायाम् अग्निवायुसमीरिताम्
महेन्द्रस्तोयदैः सार्धं सहस्राक्षो महाद्युतिः महता तोयवर्षेण शमयामास पावकम्
तस्यां प्रतिहतायां तु मायायां युधि दानवः असृजद्घोरसंकाशं तमस्तीव्रं समन्ततः
तमसा संवृते लोके दैत्येष्वात्तायुधेषु च स्वतेजसा परिवृतो दिवाकर इवाबभौ
त्रिशिखां भ्रुकुटीं चास्य ददृशुर्दानवा रणे ललाटस्थां त्रिशूलाङ्कां गङ्गां त्रिपथगामिव
ततः सर्वासु मायासु हतासु दितिनन्दनाः हिरण्यकशिपुं दैत्यं विवर्णाः शरणं ययुः
ततः प्रज्वलितः क्रोधात् प्रदहन्निव तेजसा तस्मिन्क्रुद्धे तु दैत्येन्द्रे तमोभूतमभूज्जगत्
आवहः प्रवहश्चैव विवहो ऽथ ह्युदावहः परावहः संवहश्च महाबलपराक्रमाः
तथा परिवहः श्रीमान् उत्पातभयशंसिनः इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः
ये ग्रहाः सर्वलोकस्य क्षये प्रादुर्भवन्ति वै ते सर्वे गगने दृष्टा व्यचरन्त यथासुखम्
अयोगतश्चाप्यचरन् मार्गं निशि निशाचरः सग्रहः सह नक्षत्रैर् आकापतिररिंदमः