प्रासैः पाशैश्च खड्गैश्च गदाभिर्मुसलैस्तथा वज्रैरशनिभिश्चैव साग्निभिश्च महाद्रुमैः
मुद्गरैर्भिन्दिपालैश्च शिलोलूखलपर्वतैः शतघ्नीभिश्च दीप्ताभिर् दण्डैरपि सुदारुणैः
ते दानवाः पाशगृहीतहस्ता महेन्द्रतुल्याशनिवज्रवेगाः समन्ततो ऽभ्युद्यतबाहुकायाः स्थितास्त्रिशीर्षा इव नागपाशाः
सुवर्णमालाकुलभूषिताङ्गाः पीतांशुकाभोगविभाविताङ्गाः मुक्तावलीदामसनाथकक्षा हंसा इवाभान्ति विशालपक्षाः
तेषां तु वायुप्रतिमौजसां वै केयूरमौलीवलयोत्कटानाम् तान्युत्तमाङ्गान्यभितो विभान्ति प्रभातसूर्यांशुसमप्रभाणि
खराः खरमुखाश्चैव मकराशीविषाननाः ईहामृगमुखाश्चान्ये वराहमुखसंस्थिताः
बालसूर्यमुखाश्चान्ये धूमकेतुमुखास्तथा अर्धचन्द्रार्धवक्त्राश्च अग्निदीप्तमुखास्तथा
हंसकुक्कुटवक्त्राश्च व्यादितास्या भयावहाः सिंहास्या लेलिहानाश्च काकगृध्रमुखास्तथा
द्विजिह्वका वक्रशीर्षास् तथोल्कामुखसंस्थिताः महाग्राहमुखाश्चान्ये दानवा बलदर्पिताः
शैलसंवर्ष्मणस् तस्य शरीरे शरवृष्टिभिः अवध्यस्य मृगेन्द्रस्य न व्यथां चक्रुराहवे
एवं भूयो ऽपरान्घोरान् असृजन्दानवेश्वराः मृगेन्द्रस्योपरि क्रुद्धा निःश्वसन्त इवोरगाः
ते दानवशरा घोरा दानवेन्द्रसमीरिताः विलयं जग्मुराकाशे खद्योता इव पर्वते
ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः मृगेन्द्रायासृजन्नाशु ज्वलितानि समन्ततः
तैरासीद्गगनं चक्रैः संपतद्भिरितस्ततः युगान्ते संप्रकाशद्भिश् चन्द्रादित्यग्रहैरिव
तानि सर्वाणि चक्राणि मृगेन्द्रेण महात्मना ग्रस्तान्युदीर्णानि तदा पावकार्चिःसमानि वै
तानि चक्राणि वदने विशमानानि भान्ति वै मेघोदरदरीष्वेव चन्द्रसूर्यग्रहा इव
हिरण्यकशिपुर्दैत्यो भूयः प्रासृजदूर्जिताम् शक्तिं प्रज्वलितां घोरां धौतशस्त्रतडित्प्रभाम्
तामापतन्तीं सम्प्रेक्ष्य मृगेन्द्रः शक्तिमुज्ज्वलाम् हुंकारेणैव रौद्रेण बभञ्ज भगवांस्तदा
रराज भग्ना सा शक्तिर् मृगेन्द्रेण महीतले सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता
नाराचपङ्क्तिः सिंहस्य प्राप्ता रेजे ऽविदूरतः नीलोत्पलपलाशानां मालेवोज्ज्वलदर्शना
स गर्जित्वा यथान्यायं विक्रम्य च यथासुखम् तत्सैन्यम् उत्सारितवांस् तृणाग्राणीव मारुतः
ततो ऽश्मवर्षं दैत्येन्द्रा व्यमृजन्त नभोगताः नगमात्रैः शिलाखण्डैर् गिरिशृङ्गैर्महाप्रभैः
तदश्मवर्षं सिंहस्य महन्मूर्धनि पातितम् दिशो दश विकीर्णा वै खद्योतप्रकरा इव
तदाश्मौघैर् दैत्यगणाः पुनः सिंहमरिंदमम् छादयांचक्रिरे मेघा धाराभिरिव पर्वतम्
न च तं चालयामासुर् दैत्यौघा देवसत्तमम् भीमवेगो ऽचलश्रेष्ठं समुद्र इव मन्दरम्
ततो ऽश्मवर्षे विहते जलवर्षमनन्तरम् धाराभिरक्षमात्राभिः प्रादुरासीत्समन्ततः
नभसः प्रच्युता धारास् तिग्मवेगाः समन्ततः आवृत्य सर्वतो व्योम दिशश्चोपदिशस्तथा
धारा दिवि च सर्वत्र वसुधायां च सर्वशः न स्पृशन्ति च ता देवं निपतन्त्यो ऽनिशं भुवि
बाह्यतो ववृषुर्वर्षं नोपरिष्टाच्च ववृषुः मृगेन्द्रप्रतिरूपस्य स्थितस्य युधि मायया
हते ऽश्मवर्षे तुमुले जलवर्षे च शोषिते सो ऽसृजद्दानवो मायाम् अग्निवायुसमीरिताम्