सर्वं त्रिभुवनं राजंल् लोकधर्माश्च शाश्वताः दृश्यन्ते नारसिंहे ऽस्मिंस् तथेदमखिलं जगत्
प्रजापतिश्चात्र मनुर् महात्मा ग्रहाश्च योगाश्च महीरुहाश्च उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यं च तपो दमश्च
सनत्कुमारश्च महानुभावो विश्वे च देवा ऋषयश्च सर्वे क्रोधश्च कामश्च तथैव हर्षो धर्मश्च मोहः पितरश्च सर्वे
प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः उवाच दानवान्सर्वान् गणांश्च स गणाधिपः
मृगेन्द्रो गृह्यतामेष अपूर्वां तनुमास्थितः यदि वा संशयः कश्चिद् वध्यतां वनगोचरः
ते दानवगणा सर्वे मृगेन्द्रं भीमविक्रमम् परिक्षिपन्तो मुदितास् त्रासयामासुरोजसा
सिंहनादं विमुच्याथ नरसिंहो महाबलः बभञ्ज तां सभां दिव्यां व्यादितास्य इवान्तकः
सभायां भज्यमानायां हिरण्यकशिपुः स्वयम् चिक्षेपास्त्राणि सिंहस्य रोषाद्व्याकुललोचनः
सर्वास्त्राणामथ ज्येष्ठं दण्डमन्त्रं सुदारुणम् कालचक्रं तथाघोरं विष्णुचक्रं तथा परम्
पैतामहं तथात्युग्रं त्रैलोक्यदहनं महत् विचित्रामशनीं चैव शुष्कार्द्रं चाशनिद्वयम्
रौद्रं तथोग्रं शूलं च कङ्कालं मुसलं तथा मोहनं शोषणं चैव संतापनविलापनम्
वायव्यं मथनं चैव कापालमथ कैङ्करम् तथाप्रतिहतां शक्तिं क्रौञ्चमस्त्रं तथैव च
अस्त्रं ब्रह्मशिरश्चैव सोमास्त्रं शिशिरं तथा कम्पनं शातनं चैव त्वाष्ट्रं चैव सुभैरवम्
कालमुद्गरमक्षोभ्यं तपनं च महाबलम् संवर्तनं मोहनं च तथा मायाधरं परम्
गान्धर्वमस्त्रं दयितम् असिरत्नं च नन्दकम् प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम् अस्त्रं पाशुपतं चैव यस्याप्रतिहता गतिः
अस्त्रं हयशिरश्चैव ब्राह्ममस्त्रं तथैव च नारायणास्त्रमैन्द्रं च सार्पमस्त्रं तथाद्भुतम्
पैशाचमस्त्रमजितं शोषदं शामनं तथा महाबलं भावनं च प्रस्थापनविकम्पने
एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम्
अस्त्रैः प्रज्वलितैः सिंहम् आवृणोदसुरोत्तमः विवस्वान् घर्मसमये हिमवन्तमिवांशुभिः
स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः क्षणेन प्लावयामास मैनाकमिव सागरः
प्रासैः पाशैश्च खड्गैश्च गदाभिर्मुसलैस्तथा वज्रैरशनिभिश्चैव साग्निभिश्च महाद्रुमैः
मुद्गरैर्भिन्दिपालैश्च शिलोलूखलपर्वतैः शतघ्नीभिश्च दीप्ताभिर् दण्डैरपि सुदारुणैः
ते दानवाः पाशगृहीतहस्ता महेन्द्रतुल्याशनिवज्रवेगाः समन्ततो ऽभ्युद्यतबाहुकायाः स्थितास्त्रिशीर्षा इव नागपाशाः
सुवर्णमालाकुलभूषिताङ्गाः पीतांशुकाभोगविभाविताङ्गाः मुक्तावलीदामसनाथकक्षा हंसा इवाभान्ति विशालपक्षाः
तेषां तु वायुप्रतिमौजसां वै केयूरमौलीवलयोत्कटानाम् तान्युत्तमाङ्गान्यभितो विभान्ति प्रभातसूर्यांशुसमप्रभाणि
खराः खरमुखाश्चैव मकराशीविषाननाः ईहामृगमुखाश्चान्ये वराहमुखसंस्थिताः
बालसूर्यमुखाश्चान्ये धूमकेतुमुखास्तथा अर्धचन्द्रार्धवक्त्राश्च अग्निदीप्तमुखास्तथा
हंसकुक्कुटवक्त्राश्च व्यादितास्या भयावहाः सिंहास्या लेलिहानाश्च काकगृध्रमुखास्तथा
द्विजिह्वका वक्रशीर्षास् तथोल्कामुखसंस्थिताः महाग्राहमुखाश्चान्ये दानवा बलदर्पिताः
शैलसंवर्ष्मणस् तस्य शरीरे शरवृष्टिभिः अवध्यस्य मृगेन्द्रस्य न व्यथां चक्रुराहवे