स्त्रीसहस्रैः परिवृतो विचित्राभरणाम्बरः अनर्घ्यमणिवज्रार्चिः शिखाज्वलितकुण्डलः
आसीनश्चासने चित्रे दशनल्वप्रमाणतः दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृते
दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुण्डलः
उपचेरुर्महादैत्यं हिरण्यकशिपुं तदा दिव्यतानेन गीतानि जगुर् गन्धर्वसत्तमाः
विश्वाची सहजन्या च प्रम्लोचेत्यभिविश्रुता दिव्याथ सौरभेयी च समीची पुञ्जिकस्थली
मिश्रकेशी च रम्भा च चित्रलेखा शुचिस्मिता चारुकेशी घृताची च मेनका चोर्वशी तथा
एताः सहस्रशश्चान्या नृत्यगीतविशारदाः उपतिष्ठन्ति राजानं हिरण्यकशिपुं प्रभुम्
तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम् उपासते दितेः पुत्राः सर्वे लब्धवरास्तथा
तमप्रतिमकर्माणं शतशो ऽथ सहस्रशः बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः
प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः सुरहन्ता सुनामा च प्रमतिः सुमतिर्वरः
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा विश्वरूपः सुरूपश्च स्वबलश्च महाबलः
दशग्रीवश्च वाली च मेघवासा महासुरः घटास्यो ऽकम्पनश्चैव प्रजनश्चेन्द्रतापनः
दैत्यदानवसंघास्ते सर्वे ज्वलितकुण्डलाः स्रग्विणो वाग्मिनः सर्वे सदैव चरितव्रताः
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम्
उपासन्ति महात्मानं सर्वे दिव्यपरिच्छदाः विमानैर्विविधाकारैर् भ्राजमानैरिवाग्निभिः
महेन्द्रवपुषः सर्वे विचित्राङ्गदबाहवः भूषिताङ्गा दितेः पुत्रास् तमुपासन्त सर्वशः
तस्यां सभायां दिव्यायाम् असुराः पर्वतोपमाः हिरण्यवपुषः सर्वे दिवाकरसमप्रभाः
न श्रुतं नैव दृष्टं हि हिरण्यकशिपोर्यथा ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः
कनकरजतचित्रवेदिकायां परिहृतरत्नविचित्रवीथिकायाम् स ददर्श मृगाधिपः सभायां सुरचितरत्नगवाक्षशोभितायाम्
कनकविमलहारभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श दिवसकरमहाप्रभाज्वलन्तं दितिजसहस्रशतैर्निषेव्यमाणम्
ततो दृष्ट्वा महात्मानं कालचक्रमिवागतम् नरसिंहवपुश्छन्नं भस्मच्छन्नमिवानलम्
हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान् दिव्येन चक्षुषा सिंहम् अपश्यद्देवमागतम्
ते दृष्ट्वा रुक्मशैलाभम् अपूर्वां तनुमाश्रितम् विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः
महाबाहो महाराज दैत्यानामादिसंभव न श्रुतं न च नो दृष्टं नारसिंहमिदं वपुः
अव्यक्तप्रभवं दिव्यं किमिदं रूपमागतम् दैत्यान्तकरणं घोरं संशतीव मनो मम
अस्य देवाः शरीरस्थाः सागराः सरितश्च याः हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः
चन्द्रमाश्च सनक्षत्रैर् आदित्यैर् वसुभिः सह धनदो वरुणश्चैव यमः शक्रः शचीपतिः
मरुतो देवगन्धर्वा ऋषयश्च तपोधनाः नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः
ब्रह्मा देवः पशुपतिर् ललाटस्था भ्रमन्ति वै स्थावराणि च सर्वाणि जङ्गमानि तथैव च
भवांश्च सहितो ऽस्माभिः सर्वैर्दैत्यगणैर्वृतः विमानशतसंकीर्णा तथैव भवतः सभा