वरुणो वत्सनाभश्च पनसाः सह चन्दनैः नीपाः सुमनसश्चैव निम्बा अश्वत्थतिन्दुकाः
पारिजाताश्च लोध्राश्च मल्लिका भद्रदारवः आमलक्यस्तथा जम्बूलकुचाः शैलवालुकाः
खर्जूर्यो नारिकेलाश्च हरीतकविभीतकाः कालीयका द्रुकालाश्च हिङ्गवः पारियात्रकाः
मन्दारकुन्दलक्ताश्च पतङ्गाः कुटजास्तथा रक्ताः कुरण्टकाश्चैव नीलाश्चागरुभिः सह
कदम्बाश्चैव भव्याश्च दाडिमा बीजपूरकाः सप्तपर्णाश्च बिल्वाश्च मधुपैरावृतास्तथा
अशोकाश्च तमालाश्च नानागुल्मलतावृताः मधूकाः सप्तपर्णाश्च बहवः क्षीरका द्रुमाः
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः एते चान्ये च बहवस् तत्र काननजा द्रुमाः
नानापुष्पफलोपेता व्यराजन्त समन्ततः चकोराः शतपत्राश्च मत्तकोकिलसारिकाः
पुष्पिताः पुष्पिताग्रैश्च संपतन्ति महाद्रुमाः रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः
परस्परमवेक्षन्ते प्रहृष्टा जीवजीवकाः तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुस्तदा
स्त्रीसहस्रैः परिवृतो विचित्राभरणाम्बरः अनर्घ्यमणिवज्रार्चिः शिखाज्वलितकुण्डलः
आसीनश्चासने चित्रे दशनल्वप्रमाणतः दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृते
दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुण्डलः
उपचेरुर्महादैत्यं हिरण्यकशिपुं तदा दिव्यतानेन गीतानि जगुर् गन्धर्वसत्तमाः
विश्वाची सहजन्या च प्रम्लोचेत्यभिविश्रुता दिव्याथ सौरभेयी च समीची पुञ्जिकस्थली
मिश्रकेशी च रम्भा च चित्रलेखा शुचिस्मिता चारुकेशी घृताची च मेनका चोर्वशी तथा
एताः सहस्रशश्चान्या नृत्यगीतविशारदाः उपतिष्ठन्ति राजानं हिरण्यकशिपुं प्रभुम्
तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम् उपासते दितेः पुत्राः सर्वे लब्धवरास्तथा
तमप्रतिमकर्माणं शतशो ऽथ सहस्रशः बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः
प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः सुरहन्ता सुनामा च प्रमतिः सुमतिर्वरः
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा विश्वरूपः सुरूपश्च स्वबलश्च महाबलः
दशग्रीवश्च वाली च मेघवासा महासुरः घटास्यो ऽकम्पनश्चैव प्रजनश्चेन्द्रतापनः
दैत्यदानवसंघास्ते सर्वे ज्वलितकुण्डलाः स्रग्विणो वाग्मिनः सर्वे सदैव चरितव्रताः
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम्
उपासन्ति महात्मानं सर्वे दिव्यपरिच्छदाः विमानैर्विविधाकारैर् भ्राजमानैरिवाग्निभिः
महेन्द्रवपुषः सर्वे विचित्राङ्गदबाहवः भूषिताङ्गा दितेः पुत्रास् तमुपासन्त सर्वशः
तस्यां सभायां दिव्यायाम् असुराः पर्वतोपमाः हिरण्यवपुषः सर्वे दिवाकरसमप्रभाः
न श्रुतं नैव दृष्टं हि हिरण्यकशिपोर्यथा ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः
कनकरजतचित्रवेदिकायां परिहृतरत्नविचित्रवीथिकायाम् स ददर्श मृगाधिपः सभायां सुरचितरत्नगवाक्षशोभितायाम्
कनकविमलहारभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श दिवसकरमहाप्रभाज्वलन्तं दितिजसहस्रशतैर्निषेव्यमाणम्