नारायण महाभाग देवास्त्वां शरणं गताः त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो
त्वं हि नः परमो धाता त्वं हि नः परमो गुरुः त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम
भयं त्यजध्वममरा अभयं वो ददाम्यहम् तथैव त्रिदिवं देवाः प्रतिपद्यत मा चिरम्
एषो ऽहं सगणं दैत्यं वरदानेन दर्पितम् अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम्
एवमुक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान् वधं संकल्पयामास हिरण्यकशिपोः प्रभुः
साहाय्यं च महाबाहुर् ओंकारं गृह्य सत्वरम् अथौंकारसहायस्तु भगवान्विष्णुरव्ययः
हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः तेजसा भास्कराकारः शशी कान्त्येव चापरः
नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं तथा नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना
ततो ऽपश्यत विस्तीर्णां दिव्यां रम्यां मनोरमाम् सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम्
विस्तीर्णां योजनशतं शतमध्यर्धमायताम् वैहायसीं कामगमां पञ्चयोजनविस्तृताम्
जराशोकक्लमापेतां निष्प्रकम्पां शिवां सुखाम् वेश्महर्म्यवतीं रम्यां ज्वलन्तीमिव तेजसा
अन्तःसलिलसंयुक्तां विहितां विश्वकर्मणा दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युताम्
नीलपीतसितश्यामैः कृष्णैर्लोहितकैरपि अवतानैस्तथा गुल्मैर् मञ्जरीशतधारिभिः
सिताभ्रघनसंकाशा प्लवन्तीव व्यदृश्यत रश्मिवती भास्वरा च दिव्यगन्धमनोरमा
सुसुखा न च दुःखा सा न शीता न च घर्मदा न क्षुत्पिपासे ग्लानिं वा प्राप्य तां प्राप्नुवन्ति ते
नानारूपैरुपकृतां विचित्रैरतिभास्वरैः स्तम्भैर्न विभृता सा वै शाश्वती चाक्षपा सदा
अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम्
सर्वे च कामाः प्रचुरा ये दिव्या ये च मानुषाः रसयुक्तं प्रभूतं च भक्ष्यभोज्यमनन्तकम्
पुण्यगन्धस्रजश्चात्र नित्यपुष्पफलद्रुमाः उष्णे शीतानि तोयानि शीते चोष्णानि सन्ति च
पुष्पिताग्रा महाशाखाः प्रवालाङ्कुरधारिणः लतावितानसंछन्ना नदीषु च सरःसु च
वृक्षान्बहुविधांस्तत्र मृगेन्द्रो ददृशे प्रभुः गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च
नातिशीतानि नोष्णानि तत्र तत्र सरांसि च अपश्यत्सर्वतीर्थानि सभायां तस्य स प्रभुः
नलिनैः पुण्डरीकैश्च शतपत्त्रैः सुगन्धिभिः रक्तैः कुवलयैर्नीलैः कुमुदैः संवृतानि च
सुकान्तैर्धार्तराष्ट्रैश्च राजहंसैश्च सुप्रियैः कारण्डवैश्चक्रवाकैः सारसैः कुररैरपि
विमलैः स्फाटिकाभैश्च पाण्डुरच्छदनैर्द्विजैः बहुहंसोपगीतानि सारसाभिरुतानि च
गन्धवत्यः शुभास्तत्र पुष्टमञ्जरिधारिणीः दृष्टवान्पर्वताग्रेषु नानापुष्पधरा लताः
केतक्यशोकसरलाः पुंनागतिलकार्जुनाः चूता नीपाः प्रस्थपुष्पाः कदम्बा बकुला धवाः
प्रियङ्गुपाटलावृक्षाः शाल्मल्यः सहरिद्रकाः सालास्तालास्तमालाश्च चम्पकाश्च मनोरमाः
तथैवान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः विद्रुमाश्च द्रुमाश्चैव ज्वलिताग्निसमप्रभाः
स्कन्धवन्तः सुशाखाश्च बहुतालसमुच्छ्रयाः अञ्जनाशोकवर्णाश्च बहवश्चित्रका द्रुमाः