बालानां व्याधिजुष्टानां राजद्वारं च सेवताम् इदं तत्परमं दिव्यं सर्वदा सर्वकामदम् तनुक्षये च सायुज्यं षण्मुखस्य व्रजेन्नरः
इदानीं श्रोतुमिच्छामो हिरण्यकशिपोर्वधम् नरसिंहस्य माहात्म्यं तथा पापविनाशनम्
पुरा कृतयुगे विप्रा हिरण्यकशिपुः प्रभुः दैत्यानामादिपुरुषश् चकार स महत्तपः
दश वर्षसहस्राणि दश वर्षशतानि च जलवासी समभवत् स्नानमौनधृतव्रतः
ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि ब्रह्मा प्रीतो ऽभवत्तस्य तपसा नियमेन च
ततः स्वयंभूर्भगवान् स्वयमागम्य तत्र ह विमानेनार्कवर्णेन हंसयुक्तेन भास्वता
आदित्यैर्वसुभिः साध्यैर् मरुद्भिर्दैवतैस्तथा रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः
दिग्भिश् चैव विदिग्भिश् च नदीभिः सागरैस्तथा नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः
देवैर्ब्रह्मर्षिभिः सार्धं सिद्धैः सप्तर्षिभिस्तथा राजर्षिभिः पुण्यकृद्भिर् गन्धर्वाप्सरसां गणैः
चराचरगुरुः श्रीमान् वृतः सर्वैर्दिवौकसैः ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत्
प्रीतो ऽस्मि तव भक्तस्य तपसानेन सुव्रत वरं वरय भद्रं ते यथेष्टं काममाप्नुहि
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः न मानुषाः पिशाचा वा हन्युर्मां देवसत्तम
ऋषयो वा न मां शापैः शपेयुः प्रपितामह यदि मे भगवान्प्रीतो वर एष वृतो मया
न चास्त्रेण न शस्त्रेण गिरिणा पादपेन च न शुष्केण न चार्द्रेण न दिवा न निशाथ वा
भवेयमहमेवार्कः सोमो वायुर्हुताशनः सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश
अहं क्रोधश्च कामश्च वरुणो वासवो यमः धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः
एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः सर्वान्कामान्सदा वत्स प्राप्स्यसि त्वं न संशयः
एवमुक्त्वा स भगवाञ् जगामाकाश एव हि वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्
ततो देवाश्च नागाश्च गन्धर्वा ऋषिभिः सह वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः
वरप्रदानाद्भगवन् वधिष्यति स नो ऽसुरः तत्प्रसीदाशु भगवन् वधो ऽप्यस्य विचिन्त्यताम्
भगवन्सर्वभूतानाम् आदिकर्ता स्वयं प्रभुः स्रष्टा त्वं हव्यकव्यानाम् अव्यक्तप्रकृतिर् बुधः
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः आश्वासयामास सुरान् सुशीतैर्वचनाम्बुभिः
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् तपसो ऽन्ते ऽस्य भगवान् वधं विष्णुः करिष्यति
तच्छ्रुत्वा विबुधा वाक्यं सर्वे पङ्कजजन्मनः स्वानि स्थानानि दिव्यानि विप्रजग्मुर्मुदान्विताः
लब्धमात्रे वरे चाथ सर्वाः सो ऽबाधत प्रजाः हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः
आश्रमेषु महाभागान् स मुनीञ्छंसितव्रतान् सत्यधर्मपरान्दान्तान् धर्षयामास दानवः
देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः
यदा वरमदोत्सिक्तश् चोदितः कालधर्मतः यज्ञियानकरोद्दैत्यान् अयज्ञियाश्च देवताः
तदादित्याश्च साध्याश्च विश्वे च वसवस्तथा सेन्द्रा देवगणा यक्षाः सिद्धद्विजमहर्षयः
शरण्यं शरणं विष्णुम् उपतस्थुर्महाबलम् देवदेवं यज्ञमयं वासुदेवं सनातनम्