कुपितं तु तमालोक्य कालनेमिपुरोगमाः सर्वे दैत्येश्वरा जघ्नुः कुमारं रणदारुणम्
स तैः प्रहारैरस्पृष्टो वृथाक्लेशैर्महाद्युतिः रणशौण्डास्तु दैत्येन्द्राः पुनः प्रासैः शिलीमुखैः
कुमारं सामरं जघ्नुर् बलिनो देवकण्टकाः कुमारस्य व्यथा नाभूद् दैत्यास्त्रनिहतस्य तु
प्राणान्तकरणो जातो देवानां दानवाहवः देवान्निपीडितान्दृष्ट्वा कुमारः कोपमाविशत्
ततो ऽस्त्रैर्वारयामास दानवानामनीकिनीम् ततस्तैर् निष्प्रतीकरैस् ताडिताः सुरकण्टकाः
कालनेमिमुखाः सर्वे रणादासन्पराङ्मुखाः विद्रुतेष्वथ दैत्येषु हतेषु च समन्ततः
ततः क्रुद्धो महादैत्यस् तारको ऽसुरनायकः जग्राह च गदां दिव्यां हेमजालपरिष्कृताम्
जघ्ने कुमारं गदया निष्टप्तकनकाङ्गदः शरैर्मयूरपत्रैश्च चकार विमुखान्सुरान्
तथा परैर्महाभल्लैर् मयूरं गुहवाहनम् बिभेद तारकः क्रुद्धः स सैन्ये ऽसुरनायकः
दृष्ट्वा पराङ्मुखान्देवान् मुक्तरक्तं स्ववाहनम् जग्राह शक्तिं विमलां रणे कनकभूषणाम्
बाहुना हेमकेयूररुचिरेण षडाननः ततो जवान्महासेनस् तारकं दानवाधिपम्
तिष्ठ तिष्ठ सुदुर्बुद्धे जीवलोकं विलोकय हतो ऽस्यद्य मया शक्त्या स्मर शस्त्रं सुशिक्षितम्
इत्युक्त्वा च ततः शक्तिं मुमोच दितिजं प्रति सा कुमारभुजोत्सृष्टा तत्केयूररवानुगा बिभेद दैत्यहृदयं वज्रशैलेन्द्रकर्कशम्
गतासुः स पपातोर्व्यां प्रलये भूधरो यथा विकीर्णमुकुटोष्णीषो विस्रस्ताखिलभूषणः
तस्मिन्विनिहते दैत्ये त्रिदशानां महोत्सवे नाभूत् कश्चित् तदा दुःखी नरकेष्वपि पापकृत्
स्तुवन्तः षण्मुखं देवाः क्रीडन्तश्चाङ्गनायुताः जग्मुः स्वानेव भवनान् भूरिधामान उत्सुकाः
ददुश्चापि वरं सर्वे देवाः स्कन्दमुखं प्रति तुष्टाः सम्प्राप्तसर्वेच्छाः सह सिद्धैस्तपोधनैः
यः पठेत्स्कन्दसम्बद्धां कथां मर्त्यो महामतिः शृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः
बह्वायुः सुभगः श्रीमान् कान्तिमाञ्छुभदर्शनः भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः
संध्यामुपास्य यः पूर्वां स्कन्दस्य चरितं पठेत् स मुक्तः किल्बिषैः सर्वैर् महाधनपतिर्भवेत्
बालानां व्याधिजुष्टानां राजद्वारं च सेवताम् इदं तत्परमं दिव्यं सर्वदा सर्वकामदम् तनुक्षये च सायुज्यं षण्मुखस्य व्रजेन्नरः
इदानीं श्रोतुमिच्छामो हिरण्यकशिपोर्वधम् नरसिंहस्य माहात्म्यं तथा पापविनाशनम्
पुरा कृतयुगे विप्रा हिरण्यकशिपुः प्रभुः दैत्यानामादिपुरुषश् चकार स महत्तपः
दश वर्षसहस्राणि दश वर्षशतानि च जलवासी समभवत् स्नानमौनधृतव्रतः
ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि ब्रह्मा प्रीतो ऽभवत्तस्य तपसा नियमेन च
ततः स्वयंभूर्भगवान् स्वयमागम्य तत्र ह विमानेनार्कवर्णेन हंसयुक्तेन भास्वता
आदित्यैर्वसुभिः साध्यैर् मरुद्भिर्दैवतैस्तथा रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः
दिग्भिश् चैव विदिग्भिश् च नदीभिः सागरैस्तथा नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः
देवैर्ब्रह्मर्षिभिः सार्धं सिद्धैः सप्तर्षिभिस्तथा राजर्षिभिः पुण्यकृद्भिर् गन्धर्वाप्सरसां गणैः
चराचरगुरुः श्रीमान् वृतः सर्वैर्दिवौकसैः ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत्