यज्जगद्दलनादाप्तं किल्बिषं दानव त्वया तस्याहं शासकस्ते ऽद्य राजास्मि भुवनत्रये
श्रुत्वैतद्दूतवचनं कोपसंरक्तलोचनः उवाच दूतं दुष्टात्मा नष्टप्रायविभूतिकः
दृष्टं ते पौरुषं शक्र रणेषु शतशो मया निस्त्रपत्वान्न ते लज्जा विद्यते शक्र दुर्मते
एवमुक्ते गते दूते चिन्तयामास दानवः नालब्धसंश्रयः शक्रो वक्तुमेवं हि चार्हति
जितः स शक्रो नाकस्माज् जायते संश्रयाश्रयः निमित्तानि च दुष्टानि सो ऽपश्यद्दुष्टचेष्टितः
पांशुवर्षमसृक्पातं गगनादवनीतले भुजनेत्रप्रकम्पं च वक्त्रशोषमनोभ्रमम्
स्वकान्तावक्त्रपद्मानां म्लानतां च व्यलोकयत् दुष्टांश्च प्राणिनो रौद्रान् सो ऽपश्यद्दुष्टवेदिनः
तदचिन्त्वैव दितिजो न्यस्तचिन्तो ऽभवत्क्षणात् यावद्गजघटाघण्टारणत्काररवोत्कटाम्
तद्वत्तुरगसंघातक्षुण्णभूरेणुपिञ्जराम् चञ्चलस्यन्दनोदग्रध्वजराजिविराजिताम्
विमानैश्चाद्भुताकारैश् चलितामरचामरैः तां भूषणनिबद्धां च किंनरोद्गतिनादिताम्
नानानाकतरूत्फुल्लकुसुमापीडधारिणीम् विकोशास्त्रपरिष्कारां वर्मनिर्मलदर्शनाम्
बन्द्युद्घुष्टस्तुतिरवां नानावाद्यनिनादिताम् सेनां नाकसदां दैत्यः प्रासादस्थो व्यलोकयत्
चिन्तयामास स तदा किंचिदुद्भ्रान्तमानसः अपूर्वः को भवेद्योद्धा यो मया न विनिर्जितः
ततश्चिन्ताकुलो दैत्यः शुश्राव कटुकाक्षरम् सिद्धबन्दिभिरुद्घुष्टम् इदं हृदयदारणम्
जयातुलशक्तिदीधितिपिञ्जर भुजदण्डचण्डरणरभस । सुरवदन कुमुदकानन-विकासनेन्दो कुमार जय दितिजकुलमहोदधिवडवानल
षण्मुख मधुररवमयूररथ सुरमुकुटकोटिघट्टितचरणनखाङ्कुरमहासन । जय ललितचूडाकलापनवविमलदलकमलकान्त दैत्यवंशदुःसहदावानल
जय विशाख विभो जय सकललोकतारक जय देवसेनानायक । स्कन्द जय गौरीनन्दन घण्टाप्रिय प्रिय विशाख विभो धृतपताकप्रकीर्णपटल । कनकभूषण भासुरदिनकरच्छाय
जय जनितसंभ्रम लीलालूनाखिलाराते जय सकललोकतारक दितिजासुरवरतारकान्तक । स्कन्द जय बाल सप्तवासर जय भुवनावलिशोकविनाशन
श्रुत्वैतत्तारकः सर्वम् उद्घुष्टं देवबन्दिभिः सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितम्
स्मृत्वा घर्मार्द्रसर्वाङ्गः पदातिरपदानुगः मन्दिरान्निर्जगामाशु शोकग्रस्तेन चेतसा
कालनेमिमुखा दैत्याः संरम्भाद्भ्रान्तचेतसः स्वे स्वे स्वनीकेषु तदा त्वराविस्मितचेतसः योधा धावत गृहीत योजयध्वं वरूथिनीम्
कुमारं तारको दृष्ट्वा बभाषे भीषणाकृतिः किं बाल योद्धुकामो ऽसि क्रीड कन्दुकलीलया
त्वया न दानवा दृष्टा यत्सङ्गरविभीषकाः बालत्वादथ ते बुद्धिर् एवं स्वल्पार्थदर्शिनी
कुमारो ऽपि तमग्रस्थं बभाषे हर्षयन्सुरान् शृणु तारक शास्त्रार्थस् तव चैव निरूप्यते
शास्त्रैरर्था न दृश्यन्ते समरे निर्भयैर्भटैः शिशुत्वं मावमंस्था मे शिशुः कालभुजंगमः
दुष्प्रेक्ष्यो भास्करो बालस् तथाहं दुर्जयः शिशुः अल्पाक्षरो न मन्त्रः किं सुस्फुरो दैत्य दृश्यते
कुमारे प्रोक्तवत्येवं दैत्यश्चिक्षेप मुद्गरम् कुमारस्तं निरस्याथ वज्रेणामोघवर्चसा
ततश्चिक्षेप दैत्येन्द्रो भिन्दिपालमयोमयम् करेण तच्च जग्राह कार्तिकेयो ऽमरारिहा
गदां मुमोच दैत्याय षण्मुखः परमस्वनाम् तया हतस्ततो दैत्यश् चकम्पे ऽचलराडिव
मेने च दुर्जयं दैत्यस् तदा षड्वदनं रणे चिन्तयामास बुद्ध्या वै प्राप्तः कालो न संशयः