तस्यामेव ततः षष्ठ्याम् अभिषिक्तो गुहः प्रभुः सर्वैरमरसंघातैर् ब्रह्मेन्द्रोपेन्द्रभास्करैः
गन्धमाल्यैः शुभैर्धूपैस् तथा क्रीडनकैरपि छत्रैश्चामरजालैश्च भूषणैश्च विलेपनैः
अभिषिक्तो विधानेन यथावत्षण्मुखः प्रभुः सुतामस्मै ददौ शक्रो देवसेनेति विश्रुताम्
पत्न्यर्थं देवदेवस्य ददौ विष्णुस्तदायुधम् यक्षाणां दशलक्षाणि ददावस्मै धनाधिपः
ददौ हुताशनस्तेजो ददौ वायुश्च वाहनम् ददौ क्रीडनकं त्वष्टा कुक्कुटं कामरूपिणम् एवं सुरास्तु ते सर्वे परिवारमनुत्तमम्
ददुर्मुदितचेतस्काः स्कन्दायादित्यवर्चसे
जानुभ्यामवनौ स्थित्वा सुरसंघास्तमस्तुवन् स्तोत्रेणानेन वरदं षण्मुखं मुख्यशः सुराः
नमः कुमाराय महाप्रभाय स्कन्दाय च स्कन्दितदानवाय नवार्कविद्युद्द्युतये नमो ऽस्तुते नमो ऽस्तु ते षण्मुख कामरूप
पिनद्धनानाभरणाय भर्त्रे नमो रणे दानवदारणाय नमो ऽस्तु ते ऽर्कप्रतिमप्रभाय नमो ऽस्तु गुह्याय गुहाय तुभ्यम्
नमो ऽस्तु त्रैलोक्यभयापहाय नमो ऽस्तु ते बाल कृपापराय नमो विशालामललोचनाय नमो विशाखाय महाव्रताय
नमो नमस्ते ऽस्तु मनोहराय नमो नमस्ते ऽस्तु रणोत्कटाय नमो मयूरोज्ज्वलवाहनाय नमो ऽस्तु केयूरधराय तुभ्यम्
नमो धृतोदग्रपताकिने नमस्ते नमः प्रभावप्रणताय ते ऽस्तु नमस्ते नमस्ते वरवीर्यशालिने कृपापरो नो भव भव्यमूर्ते
क्रियापरा यज्ञपतिं च स्तुत्वा विनेमुरेवं त्वमराधिपाद्याः एवं तदा षड्वदनस्तु सेन्द्रान् उवाच तुष्टश्च गुहस्ततस्तान् निरीक्ष्य नेत्रैरमलैः सुरेशाञ् शत्रून्हनिष्यामि गतज्वराः स्थ
कं वः कामं प्रयच्छामि देवता ब्रूत निर्वृताः यद्यप्यसाध्यं हृद्यं वो हृदये चिन्तितं परम्
इत्युक्तास्तु सुरास्तेन प्रोचुः प्रणतमौलयः सर्व एव महात्मानं गुहं तद्गतमानसाः
दैत्येन्द्रस्तारको नाम सर्वामरकुलान्तकृत् बलवान्दुर्जयो दुष्टो दुराचारो ऽतिकोपनः तमेव जहि हृद्यो ऽर्थ एषो ऽस्माकं भयापह
एवमुक्तस्तथेत्युक्त्वा सर्वामरपदानुगः जगाम जगतां नाथः स्तूयमानो ऽमरेश्वरैः
तारकस्य वधार्थाय जगतः कण्टकस्य वै ततश्च प्रेषयामास शक्रो लब्धसमाश्रयः
दूतं दानवसिंहस्य परुषाक्षरवादिनम् स तु गत्वाब्रवीद्दैत्यं निर्भयो भीमदर्शनः
शक्रस्त्वामाह देवेशो दैत्यकेतो दिवस्पतिः तारकासुर तच्छ्रुत्वा घटशक्त्या यथेच्छया
यज्जगद्दलनादाप्तं किल्बिषं दानव त्वया तस्याहं शासकस्ते ऽद्य राजास्मि भुवनत्रये
श्रुत्वैतद्दूतवचनं कोपसंरक्तलोचनः उवाच दूतं दुष्टात्मा नष्टप्रायविभूतिकः
दृष्टं ते पौरुषं शक्र रणेषु शतशो मया निस्त्रपत्वान्न ते लज्जा विद्यते शक्र दुर्मते
एवमुक्ते गते दूते चिन्तयामास दानवः नालब्धसंश्रयः शक्रो वक्तुमेवं हि चार्हति
जितः स शक्रो नाकस्माज् जायते संश्रयाश्रयः निमित्तानि च दुष्टानि सो ऽपश्यद्दुष्टचेष्टितः
पांशुवर्षमसृक्पातं गगनादवनीतले भुजनेत्रप्रकम्पं च वक्त्रशोषमनोभ्रमम्
स्वकान्तावक्त्रपद्मानां म्लानतां च व्यलोकयत् दुष्टांश्च प्राणिनो रौद्रान् सो ऽपश्यद्दुष्टवेदिनः
तदचिन्त्वैव दितिजो न्यस्तचिन्तो ऽभवत्क्षणात् यावद्गजघटाघण्टारणत्काररवोत्कटाम्
तद्वत्तुरगसंघातक्षुण्णभूरेणुपिञ्जराम् चञ्चलस्यन्दनोदग्रध्वजराजिविराजिताम्
विमानैश्चाद्भुताकारैश् चलितामरचामरैः तां भूषणनिबद्धां च किंनरोद्गतिनादिताम्