तेनापूर्यत तान्देवांस् तत्तत्कायविभेदतः विपाट्य जठरं तेषां वीर्यं माहेश्वरं ततः
निष्क्रान्ते तप्तहेमाभं विततं शंकराश्रमे तस्मिन्सरो महज्जातं विमलं बहुयोजनम्
प्रोत्फुल्लहेमकमलं नानाविहगनादितम् तच्छ्रुत्वा तु ततो देवी हेमद्रुममहाजलम्
जगाम कौतुकाविष्टा तत्सरः कनकाम्बुजम् तत्र कृत्वा जलक्रीडां तदब्जकृतशेखरा
उपविष्टा ततस्तस्य तीरे देवी सखीयुता पातुकामा च तत्तोयं स्वादु निर्मलपङ्कजम्
अपश्यत्कृत्तिकाः स्नाताः षडर्कद्युतिसंनिभाः पद्मपत्रे तु तद्वारि गृहीत्वोपस्थिता गृहम्
हर्षादुवाच पश्यामि पद्मपत्रे स्थितं पयः ततस्ता ऊचुरखिलं कृत्तिका हिमशैलजाम्
दास्यामो यदि ते गर्भः सम्भूतो यो भविष्यति सो ऽस्माकमपि पुत्रः स्याद् अस्मन्नाम्ना च वर्तताम् भवेल्लोकेषु विख्यातः सर्वेष्वपि शुभानने
इत्युक्तोवाच गिरिजा कथं मद्गात्रसंभवः सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत्
ततस्तां कृत्तिका ऊचुर् विधास्यामो ऽस्य वै वयम् उत्तमान्युत्तमाङ्गानि यद्येवं तु भविष्यति
उक्ता वै शैलजा प्राह भवत्वेवमनिन्दिताः ततस्ता हर्षसम्पूर्णाः पद्मपत्रस्थितं पयः
तस्यै ददुस्तया चापि तत्पीतं क्रमशो जलम् पीते तु सलिले तस्मिंस् ततस्तस्मिन्सरोवरे
विपाट्य देव्याश्च ततो दक्षिणां कुक्षिमुद्गतः निश्चक्रामाद्भुतो बालः सर्वलोकविभासकः
प्रभाकरप्रभाकारः प्रकाशकनकप्रभः गृहीतनिर्मलोदग्रशक्तिशूलः षडाननः
दीप्तो मारयितुं दैत्यान् कुत्सितान्कनकच्छविः एतस्मात्कारणाद्दैवः कुमारश्चापि सो ऽभवत्
वामं विदार्य निष्क्रान्तः सुतो देव्याः पुनः शिशुः स्कन्दाच्च वदने वह्नेः शुक्रात्सुवदनो ऽरिहा
कृत्तिकामेलनादेव शाखाभिः सविशेषतः शाखाभिधाः समाख्याताः षट्सु वक्त्रेषु विस्तृताः
यतस्ततो विशाखो ऽसौ ख्यातो लोकेषु षण्मुखः स्कन्दो विशाखः षड्वक्त्रः कार्तिकेयश्च विश्रुतः
चैत्रस्य बहुले पक्षे पञ्चदश्यां महाबलौ सम्भूतावर्कसदृशौ विशाले शरकानने
चैत्रस्यैव सिते पक्षे पञ्चम्यां पाकशासनः बालकाभ्यां चकारैकं मत्वा चामरभूतये
तस्यामेव ततः षष्ठ्याम् अभिषिक्तो गुहः प्रभुः सर्वैरमरसंघातैर् ब्रह्मेन्द्रोपेन्द्रभास्करैः
गन्धमाल्यैः शुभैर्धूपैस् तथा क्रीडनकैरपि छत्रैश्चामरजालैश्च भूषणैश्च विलेपनैः
अभिषिक्तो विधानेन यथावत्षण्मुखः प्रभुः सुतामस्मै ददौ शक्रो देवसेनेति विश्रुताम्
पत्न्यर्थं देवदेवस्य ददौ विष्णुस्तदायुधम् यक्षाणां दशलक्षाणि ददावस्मै धनाधिपः
ददौ हुताशनस्तेजो ददौ वायुश्च वाहनम् ददौ क्रीडनकं त्वष्टा कुक्कुटं कामरूपिणम् एवं सुरास्तु ते सर्वे परिवारमनुत्तमम्
ददुर्मुदितचेतस्काः स्कन्दायादित्यवर्चसे
जानुभ्यामवनौ स्थित्वा सुरसंघास्तमस्तुवन् स्तोत्रेणानेन वरदं षण्मुखं मुख्यशः सुराः
नमः कुमाराय महाप्रभाय स्कन्दाय च स्कन्दितदानवाय नवार्कविद्युद्द्युतये नमो ऽस्तुते नमो ऽस्तु ते षण्मुख कामरूप
पिनद्धनानाभरणाय भर्त्रे नमो रणे दानवदारणाय नमो ऽस्तु ते ऽर्कप्रतिमप्रभाय नमो ऽस्तु गुह्याय गुहाय तुभ्यम्
नमो ऽस्तु त्रैलोक्यभयापहाय नमो ऽस्तु ते बाल कृपापराय नमो विशालामललोचनाय नमो विशाखाय महाव्रताय