निवृत्य प्रणिपत्याथ पर्युक्ष्याग्निं समन्त्रवत् वैश्वदेवं प्रकुर्वीत नैत्यकं बलिमेव च
ततस्तु वैश्वदेवान्ते सभृत्यसुतबान्धवः भुञ्जीतातिथिसंयुक्तः सर्वं पितृनिषेवितम्
एतच्चानुपनीतो ऽपि कुर्यात्सर्वेषु पर्वसु श्राद्धं साधारणं नाम सर्वकामफलप्रदम्
भार्याविरहितो ऽप्येतत् प्रवासस्थो ऽपि भक्तिमान् शूद्रो ऽप्यमन्त्रवत्कुर्याद् अनेन विधिना बुधः
तृतीयमाभ्युदयिकं वृद्धिश्राद्धं तदुच्यते उत्सवानन्दसम्भारे यज्ञोद्वाहादिमङ्गले
मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् ततो मातामहा राजन् विश्वे देवास्तथैव च
प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः प्राङ्मुखो निर्वपेत्पिण्डान् दूर्वया च कुशैर्युतान्
सम्पन्नम् इत्यभ्युदये दद्यादर्घ्यं द्वयोर् द्वयोः युग्मा द्विजातयः पूज्या वस्त्रकार्तस्वरादिभिः
तिलार्थस्तु यवैः कार्यो नान्दीशब्दानुपूर्वकः माङ्गल्यानि च सर्वाणि वाचयेद्द्विजपुंगवैः
एवं शूद्रो ऽपि सामान्यवृद्धिश्राद्धे ऽपि सर्वदा नमस्कारेण मन्त्रेण कुर्यादामान्नतः सदा
दानप्रधानः शूद्रः स्याद् इत्याह भगवान्प्रभुः दानेन सर्वकामाप्तिर् अस्य संजायते यतः
एकोद्दिष्टमतो वक्ष्ये यदुक्तं चक्रपाणिना मृते पुत्रैर्यथा कार्यम् आशौचं च पितर्यपि
दशाहं शावमाशौचं ब्राह्मणेषु विधीयते क्षत्रियेषु दश द्वे च पक्षं वैश्येषु चैव हि
शूद्रेषु मासमाशौचं सपिण्डेषु विधीयते नैशं वाकृतचूडस्य त्रिरात्रं परतः स्मृतम्
जनने ऽप्येवमेव स्यात् सर्ववर्णेषु सर्वदा तथास्थिसंचयाद् ऊर्ध्वम् अङ्गस्पर्शो विधीयते
प्रेताय पिण्डदानं तु द्वादशाहं समाचरेत् पाथेयं तस्य तत्प्रोक्तं यतः प्रीतिकरं महत्
तस्मात्प्रेतपुरं प्रेतो द्वादशाहं न नीयते गृहं पुत्रं कलत्रं च द्वादशाहं प्रपश्यति
तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा सर्वदाहोपशान्त्यर्थम् अध्वश्रमविनाशनम्
तत एकादशाहे तु द्विजानेकादशैव तु क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान्
द्वितीये ऽह्नि पुनस्तद्वद् एकोद्दिष्टं समाचरेत् आवाहनाग्नौकरणं दैवहीनं विधानतः
एकं पवित्रमेको ऽर्घ एकः पिण्डो विधीयते उपतिष्ठतामित्येतद् देयं पश्चात्तिलोदकम्
स्वदितं विकिरेद्ब्रूयाद् विसर्गे चाभिरम्यताम् शेषं पूर्ववदत्रापि कार्यं वेदविदा पितुः
अनेन विधिना सर्वम् अनुमासं समाचरेत् सूतकान्ताद्द्वितीये ऽह्नि शय्यां दद्याद्विलक्षणाम्
काञ्चनं पुरुषं तद्वत् फलवस्त्रसमन्विताम् संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः
वृषोत्सर्गं प्रकुर्वीत देया च कपिला शुभा उदकुम्भश्च दातव्यो भक्ष्यभोज्यसमन्वितः
यावदब्दं नरश्रेष्ठ सतिलोदकपूर्वकम् ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत्
सपिण्डीकरणादूर्ध्वं प्रेतः पार्वणभाग्भवेत् वृद्धिपूर्वेषु योग्यश्च गृहस्थश्च भवेत्ततः
सपिण्डीकरणे श्राद्धे देवपूर्वं नियोजयेत् पितॄन् निवासयेत्तत्र पृथक्प्रेतं विनिर्दिशेत्
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् अर्घार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्
तद्वत्संकल्प्य चतुरः पिण्डान्पिण्डप्रदस्तथा ये समाना इति द्वाभ्याम् अन्त्यं तु विभजेत्त्रिधा