अहं वीरक ते माता मा ते ऽस्तु मनसो भ्रमः शंकरस्यास्मि दयिता सुता तुहिनभूभृतः
मम गात्रच्छविभ्रान्त्या मा शङ्कां पुत्र भावय तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना
मया शप्तो ऽस्यविदिते वृत्तान्ते दैत्यनिर्मिते ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्थिते
न निवर्तयितुं शक्यः शापः किं तु ब्रवीमि ते शीघ्रमेष्यसि मानुष्यात् स त्वं कामसमन्वितः
शिरसा तु ततो वन्द्य मातरं पूर्णमानसः उवाचोदितपूर्णेन्दुद्युतिं च हिमशैलजाम्
नतसुरासुरमौलिमिलन्मणिप्रचयकान्तिकरालनखाङ्किते नगसुते शरणागतवत्सले तव नतो ऽस्मि नतार्तिविनाशिनि
तपनमण्डलमण्डितकंधरे पृथुसुवर्णसुवर्णनगद्युते विषभुजंगनिषङ्गविभूषिते गिरिसुते भवतीमहमाश्रये
जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते भवती यथा जगति कां च न वाञ्छति शंकरो भुवनधृत्तनये भवतीं यथा
विमलयोगविनिर्मितदुर्जयस्वतनुतुल्यमहेश्वरमण्डले विदलितान्धकबान्धवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता
सितसटापटलोद्धतकंधराभरमहामृगराजरथस्थिता विमलशक्तिमुखानलपिङ्गलायतभुजौघविपिष्टमहासुरा
निगदिता भुवनैरिति चण्डिका जननि शुम्भनिशुम्भनिषूदनी प्रणतचिन्तितदानवदानवप्रमथनैकरतिस्तरसा भुवि
वियति वायुपथे ज्वलनोज्ज्वले ऽवनितले तव देवि च यद्वपुः तदजिते ऽप्रतिमे प्रणमाम्यहं भुवनभाविनि ते भववल्लभे
जलधयो ललितोद्धतवीचयो हुतवहद्युतयश्च चराचरम् फणसहस्रभृतश्च भुजंगमास् त्वदभिधास्यति मय्यभयंकराः
भगवति स्थिरभक्तजनाश्रये प्रतिगतो भवतीचरणाश्रयम् करणजातमिहास्तु ममाचलं नुतिलवाप्तिफलाशयहेतुतः
प्रसन्ना तु ततो देवी वीरकस्येति संस्तुता प्रविवेश शुभं भर्तुर् भवनं भूधरात्मजा
अथ रुद्रो महागौरीं गौरीं दृष्ट्वा तु सुन्दरीम् चित्तव्यामोहनाकारां करीन्द्रोन्मत्तगामिनीम्
पूर्णचन्द्राननां तन्वीं नितम्बोरुघनस्तनीम् मध्ये क्षामां तथाक्षीणलावण्यामृतवर्षिणीम्
सर्वाभरणपूर्वाङ्गीं मदो मन्देन कारिणीम् सकामः शङ्कितो दीनो रौद्रो वीरो भयानकः
करुणाहास्यबीभत्सकिंचित्किंचिद्धरो ऽभवत् जिघांसुर्देववाक्येन भैरवं कृतवान्वपुः
सा चापि भैरवी जाता देवस्य प्रतिरूपिणी तस्या रूपसहस्राणि ददर्श गिरिगोचरः
ग्रस्ते सहस्ररूपाणां तारारूपे प्रदर्शिते पार्वत्या चाथ निःशङ्कः शंकरो वाभवत्ततः
दृष्ट्वा जगन्मयीं तां तु रराम सुरतप्रियः विरहोत्कण्ठितां भार्यां प्राप्य भूयो हिमात्मजाम्
यावद्वर्षसहस्रान्तम् उभयो रहसिस्थयोः नानाकरणबद्धोत्था क्रीडासीत् संतता तयोः
द्वारस्थो वीरको देवान् हरदर्शनकाङ्क्षिणः व्यसर्जयत् स्वकान्येव गृहाण्यादरपूर्वकम्
नास्त्यत्रावसरो देवा देव्या सह वृषाकपिः निभृतः क्रीडतीत्युक्ता ययुस्ते च यथागतम्
गते वर्षसहस्रे तु देवास्त्वरितमानसाः ज्वलनं चोदयामासुर् ज्ञातुं शंकरचेष्टितम्
प्रविश्य जालरन्ध्रेण शुकरूपी हुताशनः ददृशे शयने शर्वं रतं गिरिजया सह
ददृशे तं च देवेशो हुताशं शुकरूपिणम् तमुवाच महादेवः किंचित्कोपसमन्वितः
निषिक्तमर्धं देव्यां मे शुक्रस्य शुकविग्रह लज्जया विरतिस्थायां त्वमर्धं पिब पावक
यस्मात्तु त्वत्कृतो विघ्नस् तस्मात्त्वय्युपपद्यते इत्युक्तः प्राञ्जलिर्वह्निर् अपिबद्वीर्यमाहितम्