तपसा दुष्करेणाप्तः पतित्वे शंकरो मया स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः
स्यामहं काञ्चनाकारा वाल्लभ्येन च संयुता भर्तुर्भूतपतेरङ्गम् एकतो निर्विशे ऽङ्गवत्
तस्यास्तद्भाषितं श्रुत्वा प्रोवाच कमलासनः एवं भव त्वं भूयश्च भर्तृदेहार्धधारिणी
ततस्तत्याज भृङ्गाङ्गं फुल्लनीलोत्पलत्वचम्
त्वचा सा चाभवद्दीप्ता घण्टाहस्ता त्रिलोचना नानाभरणपूर्णाङ्गी पीतकौशेयधारिणी
तामब्रवीत्ततो ब्रह्मा देवीं नीलाम्बुजत्विषम् निशे भूधरजादेहसम्पर्कात् त्वं ममाज्ञया
सम्प्राप्ता कृतकृत्यत्वम् एकानंशा पुरा ह्यसि य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने
स ते ऽस्तु वाहनं देवि केतौ चास्तु महाबलः गच्छ विन्ध्याचलं तत्र सुरकार्यं करिष्यसि
पञ्चालो नाम यक्षो ऽयं यक्षलक्षपदानुगः दत्तस्ते किंकरो देवि मया मायाशतैर्युतः
इत्युक्ता कौशिकी देवी विन्ध्यशैलं जगाम ह उमापि प्राप्तसंकल्पा जगाम गिरिशान्तिकम्
प्रविशन्तीं तु तां द्वाराद् अपकृष्य समाहितः रुरोध वीरको देवीं हेमवेत्रलताधरः
तामुवाच स कोपेन रूपात्तु व्यभिचारिणीम् प्रयोजनं न ते ऽस्तीह गच्छ यावन्न भेत्स्यसे
देव्या रूपधरो दैत्यो देवं वञ्चयितुं त्विह प्रविष्टो न च दृष्टो ऽसौ स वै देवेन घातितः
घातिते चाहमाज्ञप्तो नीलकण्ठेन कोपिना द्वारेषु नावधानं ते यस्मात्पश्यामि वै ततः
भविष्यसि न मद्द्वाःस्थो वर्षपूगान्यनेकशः अतस्ते ऽत्र न दास्यामि प्रवेशं गम्यतां द्रुतम्
एवमुक्त्वा गिरिसुता माता मे स्नेहवत्सला प्रवेशं लभते नान्या नारी कमललोचने
इत्युक्ता तु तदा देवी चिन्तयामास चेतसा न सा नारीति दैत्यो ऽसौ वायुर्मे यामभाषत
वृथैव वीरकः शप्तो मया क्रोधपरीतया अकार्यं क्रियते मूढैः प्रायः क्रोधसमीरितैः
क्रोधेन नश्यते कीर्तिः क्रोधो हन्ति स्थिरां श्रियम् अपरिच्छिन्नतत्त्वार्था पुत्रं शापितवत्यहम् विपरीतार्थबुद्धीनां सुलभो विपदोदयः
संचिन्त्यैवमुवाचेदं वीरकं प्रति शैलजा लज्जासज्जविकारेण वदनेनाम्बुजत्विषा
अहं वीरक ते माता मा ते ऽस्तु मनसो भ्रमः शंकरस्यास्मि दयिता सुता तुहिनभूभृतः
मम गात्रच्छविभ्रान्त्या मा शङ्कां पुत्र भावय तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना
मया शप्तो ऽस्यविदिते वृत्तान्ते दैत्यनिर्मिते ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्थिते
न निवर्तयितुं शक्यः शापः किं तु ब्रवीमि ते शीघ्रमेष्यसि मानुष्यात् स त्वं कामसमन्वितः
शिरसा तु ततो वन्द्य मातरं पूर्णमानसः उवाचोदितपूर्णेन्दुद्युतिं च हिमशैलजाम्
नतसुरासुरमौलिमिलन्मणिप्रचयकान्तिकरालनखाङ्किते नगसुते शरणागतवत्सले तव नतो ऽस्मि नतार्तिविनाशिनि
तपनमण्डलमण्डितकंधरे पृथुसुवर्णसुवर्णनगद्युते विषभुजंगनिषङ्गविभूषिते गिरिसुते भवतीमहमाश्रये
जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते भवती यथा जगति कां च न वाञ्छति शंकरो भुवनधृत्तनये भवतीं यथा
विमलयोगविनिर्मितदुर्जयस्वतनुतुल्यमहेश्वरमण्डले विदलितान्धकबान्धवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता
सितसटापटलोद्धतकंधराभरमहामृगराजरथस्थिता विमलशक्तिमुखानलपिङ्गलायतभुजौघविपिष्टमहासुरा