तदा मृत्युर्मम भवेद् अन्यथा त्वमरो ह्यहम् इत्युक्तस्तु तदोवाच तुष्टः कमलसंभवः
यदा द्वितीयो रूपस्य विवर्तस्ते भविष्यति तदा ते भविता मृत्युर् अन्यथा न भविष्यति
इत्युक्तो ऽमरतां मेने दैत्यसूनुर् महाबलः तस्मिन्काले तु संस्मृत्य तद्वधोपायमात्मनः
परिहर्तुं दृष्टिपथं वीरकस्याभवत्तदा भुजंगरूपी रन्ध्रेण प्रविवेश दृशः पथम्
परिहृत्य गणेशस्य दानवो ऽसौ सुदुर्जयः अलक्षितो गणेशेन प्रविष्टो ऽथ पुरान्तकम्
भुजगरूपं संत्यज्य बभूवाथ महासुरः उमारूपी छलयितुं गिरिशं मूढचेतनः
कृत्वा मायां ततो रूपम् अप्रतर्क्यमनोहरम् सर्वावयवसम्पूर्णं सर्वाभिज्ञानसंवृतम्
कृत्वा मुखान्तरे दन्तान् दैत्यो वज्रोपमान्दृढान् तीक्ष्णाग्रान् बुद्धिमोहेन गिरिशं हन्तुमुद्यतः
कृत्वोमारूपसंस्थानं गतो दैत्यो हरान्तिकम् पापो रम्याकृतिश्चित्रभूषणाम्बरभूषितः
तं दृष्ट्वा गिरिशस्तुष्टस् तदालिङ्ग्य महासुरम् मन्यमानो गिरिसुतां सर्वैरवयवान्तरैः
अपृच्छत्साधु ते भावो गिरिपुत्रि न कृत्रिमः या त्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनी
त्वया विरहितं शून्यं मन्यमानो जगत्त्रयम् प्राप्ता प्रसन्नवदना युक्तमेवंविधं त्वयि
इत्युक्तो दानवेन्द्रस्तु तदाभाषत्स्मयञ्छनैः न चाबुध्यदभिज्ञानं प्रायस्त्रिपुरघातिनः
यातास्म्यहं तपश्चर्तुं वाल्लभ्याय तवातुलम् रतिश्च तत्र मे नाभूत् ततः प्राप्ता त्वदन्तिकम्
इत्युक्तः शंकरः शङ्कां कांचित्प्राप्यावधारयत् हृदयेन समाधाय देवः प्रहसिताननः
कुपिता मयि तन्वङ्गी प्रकृत्या च दृढव्रता अप्राप्तकामा सम्प्राप्ता किमेतत्संशयो मम
इति चिन्त्य हरस्तस्या अभिज्ञानं विधारयन् नापश्यद्वामपार्श्वे तु तदङ्गे पद्मलक्षणम्
लोमावर्तं तु रचितं ततो देवः पिनाकधृक् अबुध्यद्दानवीं मायाम् आकारं गूहयंस्ततः
मेढ्रे वज्रास्त्रमादाय दानवं तमसूदयत् अबुध्यद्वीरको नैव दानवेन्द्रं निषूदितम्
हरेण सूदितं दृष्ट्वा स्त्रीरूपं दानवेश्वरम् अपरिच्छिन्नतत्त्वार्था शैलपुत्र्यै न्यवेदयत्
दूतेन मारुतेनाशुगामिना नगदेवता श्रुत्वा वायुमुखाद्देवी क्रोधरक्तविलोचना अशपद्वीरकं पुत्रं हृदयेन विदूयता
मातरं मा परित्यज्य यस्मात्त्वं स्नेहविक्लवाम् विहितावसरः स्त्रीणां शंकरस्य रहोविधौ
तस्मात्ते परुषा रूक्षा जडा हृदयवर्जिता गणेश क्षारसदृशी शिला माता भविष्यति
निमित्तमेतद्विख्यातं वीरकस्य शिलोदये सो ऽभवत्प्रक्रमेणैव विचित्राख्यानसंश्रयः
एवमुत्सृष्टशपाया गिरिपुत्र्यास्त्वनन्तरम् निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः
स तु सिंहः करालास्यो जटाजटिलकंधरः प्रोद्धूतलम्बलाङ्गूलो दंष्ट्रोत्कटमुखातटः
व्यादितास्यो ललज्जिह्वः क्षामकुक्षिश्चिखादिषुः तस्याशु वर्तितुं देवी व्यवस्यत सती तदा
ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः आजगामाश्रमपदं संपदामाश्रयं तदा आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा
किं पुत्रि प्राप्तुकामासि किमलभ्यं ददामि ते विरम्यताम् अतिक्लेशात् तपसो ऽस्मान्मदाज्ञया
तच्छ्रुत्वोवाच गिरिजा गुरोर्गौरत्वगर्भितम् वाक्यं वाचा चिरोद्गीर्णवर्णनिर्णीतवाञ्छितम्