ततो विभूषणान्यस्य वृक्षवल्कलधारिणी ग्रीष्मे पञ्चाग्निसंतप्ता वर्षासु च जलोषिता
शैशिरासु च रात्रीषु शुष्कस्थण्डिलशायिनी एवं साधयती तत्र तपसा संव्यवस्थिता
ज्ञात्वा तु तां गिरिसुतां दैत्यस्तत्रान्तरे वशी अन्धकस्य सुतो दृप्तः पितुर्वधमनुस्मरन्
देवान्सर्वान्विजित्याजौ बकभ्राता रणोत्कटः आडिर्नामान्तरप्रेक्षी सततं चन्द्रमौलिनः
आजगामामररिपुः पुरं त्रिपुरघातिनः स तत्रागत्य ददृशे वीरकं द्वार्यवस्थितम्
विचिन्त्यासीद्वरं दत्तं स पुरा पद्मजन्मना हते तदान्धके दैत्ये गिरिशेनामरद्विषि
आडिश्चकार विपुलं तपः परमदारुणम् तमागत्याब्रवीद्ब्रह्मा तपसा परितोषितः
किमाडे दानवश्रेष्ठ तपसा प्राप्तुमिच्छसि ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे
न कश्चिच् च विना मृत्युं नरो दानव विद्यते यतस्ततो ऽपि दैत्येन्द्र मृत्युः प्राप्यः शरीरिणा
इत्युक्तो दैत्यसिंहस्तु प्रोवाचाम्बुजसंभवम् रूपस्य परिवर्तो मे यदा स्यात्पद्मसंभव
तदा मृत्युर्मम भवेद् अन्यथा त्वमरो ह्यहम् इत्युक्तस्तु तदोवाच तुष्टः कमलसंभवः
यदा द्वितीयो रूपस्य विवर्तस्ते भविष्यति तदा ते भविता मृत्युर् अन्यथा न भविष्यति
इत्युक्तो ऽमरतां मेने दैत्यसूनुर् महाबलः तस्मिन्काले तु संस्मृत्य तद्वधोपायमात्मनः
परिहर्तुं दृष्टिपथं वीरकस्याभवत्तदा भुजंगरूपी रन्ध्रेण प्रविवेश दृशः पथम्
परिहृत्य गणेशस्य दानवो ऽसौ सुदुर्जयः अलक्षितो गणेशेन प्रविष्टो ऽथ पुरान्तकम्
भुजगरूपं संत्यज्य बभूवाथ महासुरः उमारूपी छलयितुं गिरिशं मूढचेतनः
कृत्वा मायां ततो रूपम् अप्रतर्क्यमनोहरम् सर्वावयवसम्पूर्णं सर्वाभिज्ञानसंवृतम्
कृत्वा मुखान्तरे दन्तान् दैत्यो वज्रोपमान्दृढान् तीक्ष्णाग्रान् बुद्धिमोहेन गिरिशं हन्तुमुद्यतः
कृत्वोमारूपसंस्थानं गतो दैत्यो हरान्तिकम् पापो रम्याकृतिश्चित्रभूषणाम्बरभूषितः
तं दृष्ट्वा गिरिशस्तुष्टस् तदालिङ्ग्य महासुरम् मन्यमानो गिरिसुतां सर्वैरवयवान्तरैः
अपृच्छत्साधु ते भावो गिरिपुत्रि न कृत्रिमः या त्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनी
त्वया विरहितं शून्यं मन्यमानो जगत्त्रयम् प्राप्ता प्रसन्नवदना युक्तमेवंविधं त्वयि
इत्युक्तो दानवेन्द्रस्तु तदाभाषत्स्मयञ्छनैः न चाबुध्यदभिज्ञानं प्रायस्त्रिपुरघातिनः
यातास्म्यहं तपश्चर्तुं वाल्लभ्याय तवातुलम् रतिश्च तत्र मे नाभूत् ततः प्राप्ता त्वदन्तिकम्
इत्युक्तः शंकरः शङ्कां कांचित्प्राप्यावधारयत् हृदयेन समाधाय देवः प्रहसिताननः
कुपिता मयि तन्वङ्गी प्रकृत्या च दृढव्रता अप्राप्तकामा सम्प्राप्ता किमेतत्संशयो मम
इति चिन्त्य हरस्तस्या अभिज्ञानं विधारयन् नापश्यद्वामपार्श्वे तु तदङ्गे पद्मलक्षणम्
लोमावर्तं तु रचितं ततो देवः पिनाकधृक् अबुध्यद्दानवीं मायाम् आकारं गूहयंस्ततः
मेढ्रे वज्रास्त्रमादाय दानवं तमसूदयत् अबुध्यद्वीरको नैव दानवेन्द्रं निषूदितम्
हरेण सूदितं दृष्ट्वा स्त्रीरूपं दानवेश्वरम् अपरिच्छिन्नतत्त्वार्था शैलपुत्र्यै न्यवेदयत्