शीघ्रम् एव करिष्यामि यथायुक्तम् अनन्तरम् एवमस्त्विति देवीं स वीरकः प्राह सांप्रतम्
मातुराज्ञामृताह्लादप्लाविताङ्गो गतज्वरः जगाम कक्षां संद्रष्टुं प्रणिपत्य च मातरम्
देवीं सापश्यद् आयान्तीं सखीं मातुर्विभूषिताम् कुसुममोदिनीं नाम तस्य शैलस्य देवताम्
सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा क्व पुत्रि गच्छसीत्युच्चैर् आलिङ्ग्योवाच देवता
सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम् पुनश्चोवाच गिरिजा देवतां मातृसंमताम्
नित्यं शैलाधिराजस्य देवता त्वमनिन्दिते सर्वतः संनिधानं ते मम चातीव वत्सला
अतस्तुते प्रवक्ष्यामि यद्विधेयं तदा धिया अन्यस्त्रीसंप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः
रहस्यत्र प्रयत्नेन चेतसा सततं गिरौ पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयानघे
ततो ऽहं संविधास्यामि यत्कृत्यं तदनन्तरम् इत्युक्ता सा तथेत्युक्त्वा जगाम स्वगिरिं शुभम्
उमापि पितुरुद्यानं जगामाद्रिसुता द्रुतम् अन्तरिक्षं समाविश्य मेघमालामिव प्रभा
ततो विभूषणान्यस्य वृक्षवल्कलधारिणी ग्रीष्मे पञ्चाग्निसंतप्ता वर्षासु च जलोषिता
शैशिरासु च रात्रीषु शुष्कस्थण्डिलशायिनी एवं साधयती तत्र तपसा संव्यवस्थिता
ज्ञात्वा तु तां गिरिसुतां दैत्यस्तत्रान्तरे वशी अन्धकस्य सुतो दृप्तः पितुर्वधमनुस्मरन्
देवान्सर्वान्विजित्याजौ बकभ्राता रणोत्कटः आडिर्नामान्तरप्रेक्षी सततं चन्द्रमौलिनः
आजगामामररिपुः पुरं त्रिपुरघातिनः स तत्रागत्य ददृशे वीरकं द्वार्यवस्थितम्
विचिन्त्यासीद्वरं दत्तं स पुरा पद्मजन्मना हते तदान्धके दैत्ये गिरिशेनामरद्विषि
आडिश्चकार विपुलं तपः परमदारुणम् तमागत्याब्रवीद्ब्रह्मा तपसा परितोषितः
किमाडे दानवश्रेष्ठ तपसा प्राप्तुमिच्छसि ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे
न कश्चिच् च विना मृत्युं नरो दानव विद्यते यतस्ततो ऽपि दैत्येन्द्र मृत्युः प्राप्यः शरीरिणा
इत्युक्तो दैत्यसिंहस्तु प्रोवाचाम्बुजसंभवम् रूपस्य परिवर्तो मे यदा स्यात्पद्मसंभव
तदा मृत्युर्मम भवेद् अन्यथा त्वमरो ह्यहम् इत्युक्तस्तु तदोवाच तुष्टः कमलसंभवः
यदा द्वितीयो रूपस्य विवर्तस्ते भविष्यति तदा ते भविता मृत्युर् अन्यथा न भविष्यति
इत्युक्तो ऽमरतां मेने दैत्यसूनुर् महाबलः तस्मिन्काले तु संस्मृत्य तद्वधोपायमात्मनः
परिहर्तुं दृष्टिपथं वीरकस्याभवत्तदा भुजंगरूपी रन्ध्रेण प्रविवेश दृशः पथम्
परिहृत्य गणेशस्य दानवो ऽसौ सुदुर्जयः अलक्षितो गणेशेन प्रविष्टो ऽथ पुरान्तकम्
भुजगरूपं संत्यज्य बभूवाथ महासुरः उमारूपी छलयितुं गिरिशं मूढचेतनः
कृत्वा मायां ततो रूपम् अप्रतर्क्यमनोहरम् सर्वावयवसम्पूर्णं सर्वाभिज्ञानसंवृतम्
कृत्वा मुखान्तरे दन्तान् दैत्यो वज्रोपमान्दृढान् तीक्ष्णाग्रान् बुद्धिमोहेन गिरिशं हन्तुमुद्यतः
कृत्वोमारूपसंस्थानं गतो दैत्यो हरान्तिकम् पापो रम्याकृतिश्चित्रभूषणाम्बरभूषितः
तं दृष्ट्वा गिरिशस्तुष्टस् तदालिङ्ग्य महासुरम् मन्यमानो गिरिसुतां सर्वैरवयवान्तरैः