नर्मवादी भविष्यामि जहि कोपं शुचिस्मिते शिरसा प्रणतश्चाहं रचितस्ते मयाञ्जलिः
स्नेहेनाप्यवमानेन निन्दितेनैति विक्रियाम् तस्मान्न जातु रुष्टस्य नर्मस्पृष्टो जनः किल
अनेकैश्चाटुभिर्देवी देवेन प्रतिबोधिता कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता
अवष्टब्धम् अथास्फाल्य वासः शंकरपाणिना विपर्यस्तालका वेगाद् यातुमैच्छत शैलजा
तस्या व्रजन्त्याः कोपेन पुनराह पुरान्तकः सत्यं सर्वैरवयवैः सुतासि सदृशी पितुः
हिमाचलस्य शृङ्गैस्तैर् मेघजालाकुलैर्नभः तथा दुरवगाह्येभ्यो हृदयेभ्यस्तवाशयः
काठिन्याङ्कस्त्वमस्मभ्यं वनेभ्यो बहुधा गता कुटिलत्वं च वर्त्मभ्यो दुःसेव्यत्वं हिमादपि संक्रान्तिं सर्वदैवेति तन्वङ्गि हिमशैलराट्
इत्युक्ता सा पुनः प्राह गिरिशं शैलजा तदा कोपकम्पितमूर्धा च प्रस्फुरद्दशनच्छदा
मा सर्वान्दोषदानेन निन्दान्यान्गुणिनो जनान् तवापि दुष्टसंपर्कात् संक्रान्तं सर्वमेव हि
व्यालेभ्यो ऽनेकजिह्वत्वं भस्मना स्नेहबन्धनम् हृत्कालुष्यं शशाङ्कात्तु दुर्बोधित्वं वृषादपि
तथा बहु किमुक्तेन अलं वाचा श्रमेण ते श्मशानवासान् निर्भीस् त्वं नग्नत्वान्न तव त्रपा निर्घृणत्वं कपालित्वाद् दया ते विगता चिरम्
इत्युक्त्वा मन्दिरात्तस्मान् निर्जगाम हिमाद्रिजा
तस्यां व्रजन्त्यां देवेशगणैः किलकिलो ध्वनिः क्व मातर्गच्छसि त्यक्त्वा रुदन्तो धाविताः पुनः
विष्टभ्य चरणौ देव्या वीरको बाष्पगद्गदम् प्रोवाच मातः किंत्वेतत् क्व यासि कुपितान्तरा
अहं त्वामनुयास्यामि व्रजन्तीं स्नेहवर्जिताम् नो चेत्पतिष्ये शिखरात् तपोनिष्ठे त्वयोज्झितः
उन्नाम्य वदनं देवी दक्षिणेन तु पाणिना उवाच वीरकं माता शोकं पुत्रक मा कृथाः
शैलाग्रात्पतितुं नैव न चागन्तुं मया सह युक्तं ते पुत्र वक्ष्यामि येन कार्येण तच्छृणु
कृष्णेत्युक्त्वा हरेणाहं निन्दिता चाप्यनिन्दिता सार्हं तपः करिष्यामि येन गौरीत्वमाप्नुयाम्
एष स्त्रीलम्पटो देवो यातायां मय्यनन्तरम् द्वाररक्षा त्वया कार्या नित्यं रन्ध्रान्ववेक्षिणा
यथा न काचित् प्रविशेद् योषिदत्र हरान्तिकम् दृष्ट्वा परांस्त्रियं चात्र वदेथा मम पुत्रक
शीघ्रम् एव करिष्यामि यथायुक्तम् अनन्तरम् एवमस्त्विति देवीं स वीरकः प्राह सांप्रतम्
मातुराज्ञामृताह्लादप्लाविताङ्गो गतज्वरः जगाम कक्षां संद्रष्टुं प्रणिपत्य च मातरम्
देवीं सापश्यद् आयान्तीं सखीं मातुर्विभूषिताम् कुसुममोदिनीं नाम तस्य शैलस्य देवताम्
सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा क्व पुत्रि गच्छसीत्युच्चैर् आलिङ्ग्योवाच देवता
सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम् पुनश्चोवाच गिरिजा देवतां मातृसंमताम्
नित्यं शैलाधिराजस्य देवता त्वमनिन्दिते सर्वतः संनिधानं ते मम चातीव वत्सला
अतस्तुते प्रवक्ष्यामि यद्विधेयं तदा धिया अन्यस्त्रीसंप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः
रहस्यत्र प्रयत्नेन चेतसा सततं गिरौ पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयानघे
ततो ऽहं संविधास्यामि यत्कृत्यं तदनन्तरम् इत्युक्ता सा तथेत्युक्त्वा जगाम स्वगिरिं शुभम्
उमापि पितुरुद्यानं जगामाद्रिसुता द्रुतम् अन्तरिक्षं समाविश्य मेघमालामिव प्रभा