मा वृथा लोकपालानुगचित्तता एवम् एवैतद् इत्यूचुरस्मै तदा देवताः
देवदेवानुगं वीरकं लक्षणा प्राह देवी वनं पर्वता निर्झराण्यग्निदेव्यान्यथो भूतपा निर्झराम्भोनिपातेषु निमज्जत
पुष्पजालावनद्धेषु धामस्वपि प्रोत्तुङ्गनानाद्रिकुञ्जेष्वनुगर्जन्तु हेमारुतास्फोटसंक्षेपणात् कामतः
काञ्चनोत्तुङ्गशृङ्गावरोहक्षितौ हेमरेणूत्करासङ्गद्युतिं खेचराणां वनाधायिनि रम्ये बहुरूपसंपत्प्रकरे गणान्वासितं मन्दरकन्दरे सुन्दरमन्दारपुष्पप्रवालाम्बुजे सिद्धनारीभिर् आपीतरूपामृतं विस्तृतैर् नेत्रपात्रैर् अनुन्मेषिभिर् वीरके शैलपुत्री निमेषान्तराद् अस्मरत्पुत्रगृध्री विनोदार्थिनी
सो ऽपि तादृक्क्षणावाप्तपुण्योदयो यो ऽपि जन्मान्तरस्यात्मजत्वं गतः क्रीडतस्तस्य तृप्तिः कथं जायते यो ऽपि भाविजगद्वेधसा तेजसः कल्पितः प्रतिक्षणं दिव्यगीतक्षणो नृत्यलोलो गणेशैः प्रणतः
क्षणं सिंहनादाकुले गण्डशैले सृजद्रत्नजाले बृहत्सालताले क्षणं फुल्लनानातमालालिकाले क्षणं वृक्षमूले विलोलो मराले
क्षणे स्वल्पपङ्के जले पङ्कजाढ्ये क्षणं मातुरङ्के शुभे निष्कलङ्के परिक्रीडते बाललीलाविहारी गणेशाधिपो देवतानन्दकारी निकुञ्जेषु विद्याधरैर्गीतशीलः पिनाकीव लीलाविलासैः सलीलः
प्रकाश्य भुवनाभोगी ततो दिनकरे गते देशान्तरं तदा पश्चाद् दूरमस्तावनीधरम्
उदयास्ते पुरोभावी यो हि चास्ते ऽवनीधरः मित्रत्वमस्य सुदृढं हृदये परिचिन्त्यताम्
नित्यमाराधितः श्रीमान् पृथुमूलः समुन्नतः नाकरोत्सेवितुं मेरुर् उपहारं पतिष्यतः
जले ऽप्येषा व्यवस्थेति संशयेताखिलं बुधः दिनान्तानुगतो भानुः स्वजनत्वमपूरयत्
संध्याबद्धाञ्जलिपुटा मुनयो ऽभिमुखा रविम् याचन्त्यागमनं शीघ्रं निवार्यात्मनि भाविताम्
व्यजृम्भत तथा लोके क्रमाद्वैभावरं तमः कुटिलस्येव हृदये कालुष्यं दूषयन्मनः
ज्वलत्फणिफणारत्नदीपोद्द्योतितभित्तिके शयनं शशिसंघातशुभ्रवस्त्रोत्तरच्छदम्
नानारत्नद्युतिलसच्छक्रचापविडम्बकम् रत्नकिङ्किणिकाजालं लम्बमुक्ताकलापकम्
कमनीयचलल्लोलवितानाच्छादिताम्बरम् मन्दिरे मन्दसंचारः शनैर्गिरिसुतायुतः
तस्थौ गिरिसुताबाहुलतामीलितकंधरः शशिमौलिसितज्योत्स्ना शुचिपूरितगोचरः
गिरिजाप्यसितापङ्गी नीलोत्पलदलच्छविः विभावर्या च संपृक्ता बभूवातितमोमयी तमुवाच ततो देवः क्रीडाकेलिकलायुतम्
शरीरे मम तन्वङ्गि सिते भास्यसितद्युतिः भुजंगीवासिता शुद्धा संश्लिष्टा चन्दने तरौ
चन्द्रातपेन संपृक्ता रुचिराम्बरया तथा रजनीवासिते पक्षे दृष्टिदोषं ददासि मे
इत्युक्ता गिरिजा तेन मुक्तकण्ठा पिनाकिना उवाच कोपरक्ताक्षी भ्रुकुटीकुटिलानना
स्वकृतेन जनः सर्वो जाड्येन परिभूयते अवश्यमर्थी प्राप्नोति खण्डनां जनमण्डले
तपोभिर्दीर्घचरितैर् यच्च प्रार्थितवत्यहम् तस्या मे नियतस्त्वेष ह्य् अवमानः पदे पदे
नैवास्मि कुटिला शर्व विषमा नैव धूर्जटे सविषयस्त्वं गतः ख्यातिं व्यक्तदोषाकराश्रयः
नाहं पूष्णो ऽपि दशना नेत्रे चास्मि भगस्य हि आदित्यश्च विजानाति भगवान्द्वादशात्मकः
मूर्ध्नि शूलं जनयसि स्वैर्दोषैर्मामधिक्षिपन् यस्त्वं मामाह कृष्णेति महाकालेति विश्रुतः
यास्याम्यहं परित्यक्त्वा चात्मानं तपसा गिरिम् जीवन्त्या नास्ति मे कृत्यं धूर्तेन परिभूतया
निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं भवः उवाचाविष्टसंभ्रान्तिप्रणयोन्मिश्रया गिरा
अनात्मज्ञासि गिरिजे नाहं निन्दापरस्तव त्वद्भक्तिबुद्ध्या कृतवांस् तवाहं नामसंश्रयम्
विकल्पः स्वस्थचित्ते ऽपि गिरिजे नैव कल्पना यद्येवं कुपिता भीरु त्वं तवाहं न वै पुनः