वत्सासंख्येषु दुर्गा गणेशेष्वेतस्मिन्वीरके पुत्रभावोपतुष्टान्तःकरणा तिष्ठतु
स्वस्य पितृजनप्रार्थितं भव्यमायातिभाविन्यसौ भव्यता
सो ऽपि निर्वर्त्य सर्वान् गणान् सस्मयमाह बालत्वलीलारसाविष्टधीः
एष मात्रा स्वयं मे कृतभूषणो ऽत्र एष पटः पाटलैर्बिन्दुभिः सिन्दुवारस्य पुष्पैरियं मालतीमिश्रिता मालिका मे शिरस्याहिता
को ऽयमातोद्यधारी गणस्तस्य दास्यामि हस्तादिदं क्रीडनम्
दक्षिणात्पश्चिमं पश्चिमादुत्तरमुत्तरात्पूर्वमभ्येत्य सख्या युता प्रेक्षती तं गवाक्षान्तराद्वीरकं शैलपुत्री बहिः क्रीडनं यज्जगन्मातुरप्येष चित्तभ्रमः
पुत्रलुब्धो जनस्तत्र को मोहमायाति न स्वल्पचेता जडो मांसविण्मूत्रसंघातदेहः
द्रष्टुमभ्यन्तरे नाकवासेश्वरैर् इन्दुमौलिं प्रविष्टेषु कक्षान्तरम्
वाहनात्यावरोहा गणास्तैर्युतो लोकपालास्त्रमूर्तो ह्ययं खड्गो विखड्गकरो निर्ममः कृतान्तः कस्य केनाहतो ब्रूत मौने भवन्तो ऽस्त्रदण्डेन किं दुःस्पृहाः
भीममूर्त्याननेनास्ति कृत्यं गिरौ य एषो ऽस्त्रज्ञेन किं वध्यते
मा वृथा लोकपालानुगचित्तता एवम् एवैतद् इत्यूचुरस्मै तदा देवताः
देवदेवानुगं वीरकं लक्षणा प्राह देवी वनं पर्वता निर्झराण्यग्निदेव्यान्यथो भूतपा निर्झराम्भोनिपातेषु निमज्जत
पुष्पजालावनद्धेषु धामस्वपि प्रोत्तुङ्गनानाद्रिकुञ्जेष्वनुगर्जन्तु हेमारुतास्फोटसंक्षेपणात् कामतः
काञ्चनोत्तुङ्गशृङ्गावरोहक्षितौ हेमरेणूत्करासङ्गद्युतिं खेचराणां वनाधायिनि रम्ये बहुरूपसंपत्प्रकरे गणान्वासितं मन्दरकन्दरे सुन्दरमन्दारपुष्पप्रवालाम्बुजे सिद्धनारीभिर् आपीतरूपामृतं विस्तृतैर् नेत्रपात्रैर् अनुन्मेषिभिर् वीरके शैलपुत्री निमेषान्तराद् अस्मरत्पुत्रगृध्री विनोदार्थिनी
सो ऽपि तादृक्क्षणावाप्तपुण्योदयो यो ऽपि जन्मान्तरस्यात्मजत्वं गतः क्रीडतस्तस्य तृप्तिः कथं जायते यो ऽपि भाविजगद्वेधसा तेजसः कल्पितः प्रतिक्षणं दिव्यगीतक्षणो नृत्यलोलो गणेशैः प्रणतः
क्षणं सिंहनादाकुले गण्डशैले सृजद्रत्नजाले बृहत्सालताले क्षणं फुल्लनानातमालालिकाले क्षणं वृक्षमूले विलोलो मराले
क्षणे स्वल्पपङ्के जले पङ्कजाढ्ये क्षणं मातुरङ्के शुभे निष्कलङ्के परिक्रीडते बाललीलाविहारी गणेशाधिपो देवतानन्दकारी निकुञ्जेषु विद्याधरैर्गीतशीलः पिनाकीव लीलाविलासैः सलीलः
प्रकाश्य भुवनाभोगी ततो दिनकरे गते देशान्तरं तदा पश्चाद् दूरमस्तावनीधरम्
उदयास्ते पुरोभावी यो हि चास्ते ऽवनीधरः मित्रत्वमस्य सुदृढं हृदये परिचिन्त्यताम्
नित्यमाराधितः श्रीमान् पृथुमूलः समुन्नतः नाकरोत्सेवितुं मेरुर् उपहारं पतिष्यतः
जले ऽप्येषा व्यवस्थेति संशयेताखिलं बुधः दिनान्तानुगतो भानुः स्वजनत्वमपूरयत्
संध्याबद्धाञ्जलिपुटा मुनयो ऽभिमुखा रविम् याचन्त्यागमनं शीघ्रं निवार्यात्मनि भाविताम्
व्यजृम्भत तथा लोके क्रमाद्वैभावरं तमः कुटिलस्येव हृदये कालुष्यं दूषयन्मनः
ज्वलत्फणिफणारत्नदीपोद्द्योतितभित्तिके शयनं शशिसंघातशुभ्रवस्त्रोत्तरच्छदम्
नानारत्नद्युतिलसच्छक्रचापविडम्बकम् रत्नकिङ्किणिकाजालं लम्बमुक्ताकलापकम्
कमनीयचलल्लोलवितानाच्छादिताम्बरम् मन्दिरे मन्दसंचारः शनैर्गिरिसुतायुतः
तस्थौ गिरिसुताबाहुलतामीलितकंधरः शशिमौलिसितज्योत्स्ना शुचिपूरितगोचरः
गिरिजाप्यसितापङ्गी नीलोत्पलदलच्छविः विभावर्या च संपृक्ता बभूवातितमोमयी तमुवाच ततो देवः क्रीडाकेलिकलायुतम्
शरीरे मम तन्वङ्गि सिते भास्यसितद्युतिः भुजंगीवासिता शुद्धा संश्लिष्टा चन्दने तरौ
चन्द्रातपेन संपृक्ता रुचिराम्बरया तथा रजनीवासिते पक्षे दृष्टिदोषं ददासि मे