व्याघ्रेभवदनाः केचित् केचिन्मेषाजरूपिणः अनेकप्राणिरूपाश्च ज्वालास्याः कृष्णपिङ्गलाः
सौम्या भीमाः स्मितमुखाः कृष्णपिङ्गजटासटाः नानाविहङ्गवदना नानाविधमृगाननाः
कौशेयचर्मवसना नग्नाश्चान्ये विरूपिणः गोकर्णा गजकर्णाश्च बहुवक्त्रेक्षणोदराः
बहुपादा बहुभुजा दिव्यनानास्त्रपाणयः अनेककुसुमापीडा नानाव्यालविभूषणाः
वृकाननायुधधरा नानाकवचभूषणाः विचित्रवाहनारूढा दिव्यरूपा वियच्चराः
वीणावाद्यमुखोद्घुष्टा नानास्थानकनर्तकाः गणेशांस्तांस्तथा दृष्ट्वा देवी प्रोवाच शंकरम्
गणेशाः कतिसंख्याताः किंनामानः किमात्मकाः एकैकशो मम ब्रूहि धिष्ठिता ये पृथक्पृथक्
कोटिसंख्या ह्यसंख्याता नानाविख्यातपौरुषाः जगदापूरितं सर्वैर् एभिर्भीमैर्महाबलैः
सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु दानवानां शरीरेषु बालेषून्मत्तकेषु च एते विशन्ति मुदिता नानाहारविहारिणः
ऊष्मपाः फेनपाश्चैव धूमपा मधुपायिनः रक्तपाः सर्वभक्षाश्च वायुपा ह्यम्बुभोजनाः
गेयनृत्योपहाराश्च नानावाद्यरवप्रियाः न ह्येषां वै अनन्तत्वाद् गुणान्वक्तुं हि शक्यते
मार्गत्वगुत्तरासङ्गशुद्धाङ्गो मुञ्जमेखली मानशिलेन कल्केन चपलो रञ्जिताननः
पिनद्धोत्पलस्रग्दामा सुकान्तो मधुराकृतिः पाषाणशकलोत्तानकांस्यतालप्रवर्तकः
असौ गणेश्वरो देवः किंनामा किंनरानुगः य एष गणगीतेषु दत्तकर्णो मुहुर्मुहुः
स एष वीरको देवि सदा मद्धृदयप्रियः नानाश्चर्यगुणाधारो गणेश्वरगणार्चितः
ईदृशस्य सुतस्यास्ति ममोत्कण्ठा पुरान्तक कदाहम् ईदृशं पुत्रं द्रक्ष्याम्यानन्ददायिनम्
एष एव सुतस्ते ऽस्तु नयनानन्दहेतुकः त्वया मात्रा कृतार्थो ऽस्तु वीरको ऽपि सुमध्यमे
इत्युक्ता प्रेषयामास विजयां हर्षणोत्सुका वीरकानयनायाशु दुहिता हिमभूभृतः
सावरुह्य त्वरायुक्ता प्रासादादम्बरस्पृशः विजयोवाच गणपं गणमध्ये प्रवर्तिता
एहि वीरक चापल्यात् त्वया देवः प्रकोपितः किमुत्तरं वदत्यर्थे नृत्यरङ्गे तु शैलजा
इत्युक्तस्त्यक्तपाषाणशकलो मार्जिताननः आहूतस्तु तयोद्भूतमूलप्रस्तावशंसकः
देव्याः समीपमागच्छद् विजयानुगुप्तः शनैः प्रासादशिखरात्फुल्लरक्ताम्बुजनिभद्युतिः
तं दृष्ट्वा प्रस्रुतानल्पस्वादुक्षीरपयोधरा गिरिजोवाच सस्नेहं गिरा मधुरवर्णया
एह्येहि यातो ऽसि मे पुत्रतां देवदेवेन दत्तो ऽधुना वीरक
इत्येवमङ्के निधायाथ तं पर्यचुम्बत्कपोले कलवादिनम्
मूर्ध्न्युपाघ्राय संमार्ज्य गात्राणि भूषयामास दिव्यैः स्वयं भूषणैः किङ्किणीमेखलानूपुरैर् माणिक्यकेयूरहारोरुमूलगुणैः
कोमलैः पल्लवैश्चित्रितैश्चारुभिर् दिव्यमन्त्रोद्भवैस् तस्य शुभैस्ततो भूरिभिश्चाकरोन्मिश्रसिद्धार्थकैर् अङ्गरक्षाविधिम्
एवमादाय चोवाच कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभङ्गोज्ज्वलम्
गच्छ गच्छाधुना क्रीड सार्धं गणैरप्रमत्तो नगे श्वभ्रवर्ज शनैर्व्यालमालाकुलाः शैलसानुद्रुमदन्तिभिर् भिन्नसाराः परे सङ्गिनः
जाह्नवीयं जलं क्षुब्धतोयाकुलं कूलं मा विशेथा बहुव्याघ्रदुष्टे वने